________________
२३०
आतुरप्रत्याख्यानप्रकीर्णकम्
तयोक्तं-'इयं श्रेष्ठिस्त्री, एते तत्सुताः' । ततः कपिलया तद्वृत्तान्तो मूलतः प्रोक्तः । अथ सा देव्या प्रोचे-त्वं मुग्धाऽनेन दंभेन वञ्चिता' । ततस्तयोक्तं-'देवि ! तवापि वैदग्ध्यं तदा वेद्मि, चेदनेन समं रमसे' । इति तद्वचः श्रुत्वा देव्याङ्गीकृतम् ।।
एकदा राजादौ वने रंतुं गते शून्यगृहे कायोत्सर्गस्थं कामयक्षमूर्तिदंभेन यानारूढं कारयित्वा पंडिताख्यया स्वधात्र्यानाय्य स्वभुवनान्तः प्रच्छन्नं क्षिप्त्वा सा कामविभ्रमादिदर्शनपूर्वमत्यर्थं प्रार्थितवती । तथापि तन्मनो न मनागपि चलितम् । ततस्तया स्तनोपपीडं तस्य सर्वागीणमालिंगनं दत्तम् । तथापि न क्षुब्धं चेतः । ततः कुपितया तया पूञ्चक्रे । तच्छ्रुत्वारक्षकैः स धृत्वा राज्ञोऽने नीतः । पृष्टेनापि तेन तस्यां कृपया मौनमाश्रितम् । ततो दोषं संभाव्य रुष्टेन राज्ञा 'एष विडम्ब्य पुरे भ्रामयित्वा मार्यतां' इति रक्षका आदिष्टाः । तैस्तथा कृत्वा नीयमानस्तत्प्रियया दृष्टः । तदा सा जिनाग्रे कायोत्सर्ग चकार कलंकोत्तरणं यावत् । इतस्ते तं शूलिकायां न्यधुः । सा च स्वर्णसिंहासनमभूत् । अथ तैस्तद्वधार्थं खड्गप्रहारा मुक्तास्ते च कंठे हारत्वं, मौलौ मौलितां, कर्णयोः कुंडलत्वं, करचरणे च कटकत्वं भेजिरे । आरक्षकैस्तञ्चित्रं राज्ञे ज्ञापितम् । ततो राज्ञा तत्रागत्य श्रेष्ठी सत्कृत्य स्वहस्तिनमारोप्य समहोत्सवं स्वगृहे नीतः । तज्ज्ञातं ज्ञात्वा तया कायोत्सर्गो मुक्तः । अथ राजा तन्मुखाद्राज्ञीवृत्तं ज्ञात्वा श्रेष्ठिवचनादभयाया अभयं दत्वा श्रेष्ठिनं हस्तिस्कन्धमारोप्य स्वगृहे प्रेषीत् । तद्वृत्तं विज्ञायाभया स्वमुद्वध्य मृता । पंडिता पाटलीपुरे वेश्यान्तिकेऽगमत् ।
अथ सुदर्शनो भवविरक्तो गृहीतव्रतो विचरन् पाटलीपुरे गतः । तत्र पंडितया प्रतिलाभमिषेण स्वगृहे नीत्वा द्वारं पिधाय कदर्थितोऽपि नाचलत् । ततः सायं विमुक्तो निर्गत्य वने गत्वा स्मशानान्तः प्रतिमया स्थितः । तत्रापि व्यन्तरीभूतया तयाभयाराज्या प्राग्वैरादनेके उपसर्गाः कृताः । तथापि तन्मनो न चलितम् । स मुनिः शुभध्यानात् केवलज्ञानमासाद्य देशनां ददौ । तदाऽभयापि सम्यक्त्वं प्राप । पंडितापि प्रतिबोधिता । एवं केवलपर्यायं चिरं प्रपाल्य शिवं गतः ।। ३९. वितर्कध्याने श्रीउपदेशप्रासादे चाणक्यस्य ज्ञातम् । __ गोल्लदेशे जैनश्चणकनामा विप्रोऽभूत् । तस्य भार्या चणेश्वरी । तयोः सुतश्चाणाक्यः गर्भाद्दशनैः सह जातः । अन्यदा तद्गृहे ज्ञानी मुनिराहारार्थमागात् । दम्पती मुनिं नत्वा पप्रच्छतुः-“हे भगवन् ! असौ सदन्तो जातोऽस्ति तस्य को हेतुः ?" । मुनिः स्माह-“बालोऽयं नृपो भविता" । तच्छ्रुत्वा चणको विषणो दध्यौ-“मत्सुतो राज्यारम्भैरधोगतिं मा यासीत्” इति ध्वात्वा दन्तान् घृष्ट्वा साधुभ्यः सोऽवक्। साधुः स्माह-"तर्हि सचिवेशो भावी ।" ततश्चाणाक्यः क्रमेण सकलकलासमुद्रोऽभूत् । यौवने विप्रकन्यां पर्यणैषीत् । निर्धनोऽपि हि संतोषतो द्रव्यार्थं महाप्रयत्नं नाकरोत् । अन्यदा तत्प्रिया
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org