________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२२९
प्रजापतिनृपस्य वारकोऽभवत् । तदा पितरं निषिध्य तत्र त्रिपृष्ठस्तदुपद्रवं रक्षितुं सारथियुतो रथमारुह्य ययौ । तेनालापितमात्रोऽसौ सिंहस्तं प्रत्यधावत् । तदा त्रिपृष्ठः शुक्तिसंपुटवत्तस्यौष्ठयामलं द्विधा कृत्वा सिंहमर्धमृतं चक्रे । ततः सिंहः स्वं निनिन्द-'हहा ! नृमात्रेणाहं हतः' । तदा मधुरवाचा सारथिस्तमसान्त्वयत्-“हे सिंह ! वासुदेवोऽयं भविता । रंकमात्रमिमं मा जानीहि । पुरुषेन्द्रस्य हस्तेन मृतश्चेत् किं विषीदसि ? । मर्त्यलोकेऽयमेव सिंहोऽस्ति, भवान् पुनस्तिर्यग्योनौ” । इति वाक्येन हृष्टः सिंहः समाधिना निमीलनं प्राप्तः । ततस्ते त्रयोऽपि भवाम्भोधौ भ्रामं भ्रामं क्रमादत्राभवन् । यस्त्रिपृष्ठजीवः सोऽहं जातः, सिंहजीवस्तु कृषीवलो जातः, सारथे - वस्तु भवानिन्द्रभूतिर्जातः । पुरा मधुरया वाचा त्वयासौ प्रीणितो मया च हतः । तदत्र भवनाटके स्नेहवैरयोः कारणं ज्ञेयम् । परं त्वयं शुक्लपाक्षिको जातः । ३८. वैरध्याने श्रीउपदेशप्रासादे सुदर्शनप्रबन्धः ।
चम्पायामृषभदासः श्रेष्ठी । तस्यार्हदासी स्त्री सुशीलाभवत् । अन्येधुर्माघमासे सुभगाख्यस्तन्महिषीपाल: श्रेष्ठीमहिषीश्चारयित्वा गृहमागच्छन् सायमपावृतं प्रतिमास्थं शीतार्तं मुनिं पथि दृष्ट्वा तस्य श्लाघां विधाय गृहमागत्य निशामतिवाह्य सवेलमुत्थाय महिषीः पुरस्कृत्य गच्छन् तथास्थं मुनि वीक्ष्य तत्पार्श्वे निषणः । इत उदिते रवौ स चारणमुनिः 'नमो अरिहंताणं' इत्युक्त्वा दिवमुत्पतितः । ततस्तेन तत्पदं व्योमगामिविद्यामंत्रमिव मत्वा चित्ते न्यस्तं । तदेव सोऽर्हत्सन्निधौ अन्येद्युः पठति स्म । तद्ध्यानपरं तं दृष्ट्वा श्रेष्ठी पप्रच्छ-'कुत इदं त्वया प्राप्तं ?' तेनोक्तं-'मुनेः' इत्युक्ते सर्ववृत्तान्ते च तुष्टः श्रेष्ठी तं संपूर्णं नमस्कारमपाठयत् ।
इतस्तद्गुणनं कुर्वतस्तस्य क्रमाद्वर्षाकाल: समेतः । ततो मेघेनैकार्णवे महीमंडले कृते स महिषीर्लात्वा वनं गतः । अन्तराले नदीपूरमागता । अथ तेन व्योमविद्याबुद्ध्या तदेव स्मरता नद्यां झंपा दत्ता । अन्तराले स कीलकविद्धो मृत्वा तस्यैव श्रेष्ठिनः सुदर्शनाख्यः सुतो जातः । क्रमात् पितृभ्यां मनोरमामिभ्यसुतां विवाहितः । इतस्तस्य कपिलेन नृपपुरोधसा समं निविडा प्रीतिरभूत् । अन्यदा पत्युक्तद्गुणश्रवणानुरक्ता तत्पत्नी कपिला कामातुरा सुदर्शनसौधे समेत्य 'तवाद्य सुहृदो वपुरपाटवमस्त्यतस्त्वया सुखपृच्छार्थं शीघ्रं मद्गृहे समेतव्यं' इत्युक्त्वा तं गुप्तगृहान्तीत्वा द्वारं दत्वा त्रपां त्यक्त्वा रतार्थं प्रार्थयामास । ततः परस्त्रीरतौ षंढः स श्रेष्ठी शीलरक्षार्थं 'पंढोऽहमस्मि मुग्धे, किं वृथा मां प्रार्थयसि ?' इत्युक्त्वा निर्गत्य गृहमागतः ।। __ अन्यदा नृपः सपुरोधःसुदर्शनः क्रीडितुमुद्यानं गतः । यानारूढाभया राज्यपि कपिलया समं वनमगात् । इतः कपिला सुदर्शनप्रियां सुतषट्कयुतां पथि दृष्ट्वा ‘केयं स्त्री ?' इत्यभयामपृच्छत् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org