SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २२८ आतुरप्रत्याख्यानप्रकीर्णकम् ३८. वैरध्याने श्रीउपदेशप्रासादे कृषीवलदृष्टान्तः । एकदा जंगमः कल्पतरुरिव मार्गे विहारं कुर्वन्महावीरजिनो गौतमं प्रत्युवाच-“हे वत्स ! योऽयं कृषीवलः पुरस्तात प्रेक्ष्यते, तस्य प्रतिबोधाय त्वं सत्वरं तत्र गच्छ, त्वत्तो महानस्य लाभो भावी" । तथेति प्रतिपद्य गौतमस्तत्रागत्येत्यलपत्-“हे भद्र ! तव समाधिर्वर्तते ? त्वं कस्मादनेकद्वीन्द्रियादिजीवानां (विराधनामयेन) कृषिकर्मणा मुधा पापानि करोषि ? कथं पापकुटुम्बार्थमात्माऽनर्थे निपात्यते ? । यतः संसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवाबंधवयं उविंति ।।१।। तस्मात्तपस्यापोतमादाय भवोदधेः समुत्तर इति सद्वाक्यपीयूषैः सिक्तस्तं जगौ-“स्वामिन् ! अहं विप्रः सप्तकन्यकादीनां दुष्पूरोदयपूर्त्यर्थमनेकपापकर्माणि करोमि । अतः परं त्वमेव मम भ्राता माता चासि । यदादिशसि तत्कुर्वे, नान्यथा पूज्यवचः करिष्ये" । ततः सोऽपि तदर्पितं साधुवेषं स्वीचक्रे । गृहीतव्रतं तं सहादाय गौतमो जिनाभिमुखं चचाल । तदा सोऽवदत्-'पूज्य ! कुत्र गम्यते ? गौतमोऽवक्-'यत्र मे गुरवः सन्ति तत्र' । सोऽवादीत्-'सुरासुरपूज्यानां भवतामपि पूज्यास्ते तु कीदृशा भविष्यन्ति ?' । तदा तस्याग्रेऽर्हद्गुणाः प्रोक्ताः । तच्छ्रुत्वा तेन सम्यक्त्वमर्जितं, पुनर्जिनसमृद्ध्यवलोकनाद्विशेषेण प्राप्तम् । ततो क्रमेण सपरिच्छदं श्रीवीरं यावदद्राक्षीत्तावत्तस्य मनसि द्वेषः समभूत् । गौतमः प्राह-'भो मुने ! श्रीवीरं वन्दस्व' । सोऽपि गणधरं प्रत्याह"भवदीयोऽयं गुरुश्चेत्तदा मम प्रव्रज्यायाः प्रयोजनं नास्ति, तव शिष्यत्वभवनेनालं, इमं वेषं गृहाण, अहं स्वमन्दिरे यास्यामि" । इत्युक्त्वा यदा त्यक्तवेषोऽसौ मुष्टिं बद्ध्वा प्रणष्टवान्, तदा ताद्दक् तस्य चेष्टितं वीक्ष्य सर्वेऽपीन्द्राद्या हसन्तः प्राहु:-'अहो ! इन्द्रभूतिना वरीयान् शिष्य उपार्जितः । एतदद्भुतं वीक्ष्य मनाग् लज्जितमना गौतमो वीरं तद्वैरकारणं पप्रच्छ । स्वामी तं प्रत्याह-“हे वत्स ! अनेनार्हद्गुणचिन्तनैर्ग्रन्थिभेदः कृतः । तेन तस्य तव च महान् लाभोऽभूत् । यन्मां वीक्ष्यास्य द्वेषो जातस्तत्स्वरूपं शृणु___पुरा पोतनपुरे प्रजापतिनृपाङ्गजस्त्रिपृष्ठाख्यो वासुदेवोऽहमभवम्, तदा त्रिखण्डाधिपः प्रत्यर्धचक्री अश्वग्रीवाह्वोऽभूत् । अन्यदा स्वसंसदि तेन स्वनिमीलनं निमित्तज्ञं प्रति पृष्टम् । सोऽपि त्रिपृष्ठहस्तात् त्वन्मृत्युर्भावीत्यब्रवीत् । ततोऽन्वहं स त्रिपृष्ठस्योपरि द्वेषं वहन् मारणोपायांश्चक्रे । ते तु विफला जज्ञिरे । अन्यदा तत्पुरो वने शालिक्षेत्रमनुष्येषूपद्रवं कुर्वन्तं सिंहं हन्तुं न केनापि समर्थ्यते, तदा तदुपद्रवनिवारणायार्धचक्रिनृपाज्ञया स्वस्ववारके नृपाः स्थितिं कुर्वन्ति । अन्येयुः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy