________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२२७
यथैवमस्माकं न कल्पते भिक्षेति, ततः समीपदेशवर्ती श्रेष्ठी प्रोवाच-कोऽत्र दोषः ?, ततः साधुः कायविराधनादीन् दोषान् यथागमं सविस्तरमचीकथत् ततः स आतो भणति यथा भगवन् ! कुत्र युष्माकं वसतिर्येन तत्रागता वयं धर्मं शृणुमः ततः साधुरवादीत्-नास्ति मेऽद्यापि प्रतिश्रयः, ततस्तेन निजगृहैकदेशे वसतिरदायि, प्रतिदिनं च धर्मं शृणोति, सम्यक्त्वमणुव्रतानि च प्रतिपन्नानि, साधुश्च कदाचनापि वासुदेवादिपूर्वपुरुषाचीर्णाननेकानभिग्रहन् व्यावर्णयामास, यथा वासुदेवेनायमभिग्रहो जगृहे-यदि मदीयः पुत्रोऽपि प्रव्रज्यां जिघृक्षति ततोऽहं न निवारयामीत्यादि, एवं च श्रुत्वा शिवदेवोऽप्यभिग्रहं गृहीतवान्-यदि भगवन् ! मदीयोऽपि कोऽपि प्रव्रज्यां प्रतिपद्यते ततोऽहं न निवारयामीति, अत्रान्तरे च शिवदेवस्य तनयो ज्येष्ठः सा च साधुभगिनी सम्मतिः प्रवज्यां ग्रहीतुमुपतस्थे, श्रेष्ठिना च तौ द्वावपि विसर्जितौ, ततः प्रव्रज्यां प्रतिपन्नाविति । ३८. वैरध्याने श्रीउपदेशमालाहेयोपादेयायां परशुरामसुभुमयोः वृत्तान्तः ।
गजपुरेऽनन्तवीर्यराजभार्याया भगिनी रेणुकाभिधाना परिणीता जमदग्नितापसेन । सा अन्यदाऽऽयाता गजपुरे भगिनीसमीपे राज्ञा च समुत्पादितस्तस्यास्तनयः, नीता ऋषिणा । तस्याश्च विद्याधरदत्तपरशुविद्यो रामः ज्येष्टतनय आसीत् । तेन कुलकलङ्कभूतेयमिति जातक्रोधेन व्यापादिता सा ससुता । तत् श्रुत्वा अनन्तवीर्येणागत्य ऋषेराश्रमो विनाशितः, रामेणापि तच्छिरश्छिन्नं परशुना, जातोऽनन्तवीर्यसुतः कार्तवीर्यो राजा तेनाकर्ण्य वृत्तान्तं जातमत्सरेणागत्य हतो यमदग्निः, रामेणाप्यसाविति । तद्भार्या सुताराऽऽपन्नगर्भा भयात्प्रपलायमाना गता तापसाश्रमम् । तत्र च विह्वलत्वात्पतितो निष्पन्नदारको भूमिं गृह्णन्नास्येन । कृतं तद्द्वारेण तस्य नाम सुभूम इति । रामेणापि गत्वाधिष्ठितं तद्राज्यं, क्रोधवशात् कृता सप्तकृत्वो निःक्षत्रिया वसुधा, भृतं प्रधानक्षत्रियदंष्ट्राणां स्थालम् । अन्यदा पृष्टस्तेन नैमित्तिकः कुतो मे मरणमिति । स प्राह-यत्सन्निधानादेताः स्थालस्थिता दंष्ट्राः पायसीभविष्यन्ति तत इति । ततस्तदुपलम्भार्थं कारितं तेन सिंहासनतस्याग्रतो निवेश्य स्थालमवारितसत्रम् । इतश्च नैमित्तिकसूचितसुतावरत्वान्मेघनादविद्याधरेण सेव्यमानो गतो वृद्धिं सुभूमः । स मातरमपृच्छत् किमियानेव लोक इति ? तत् श्रुत्वा वचो रुदितं तया, सोऽवोचद्-अम्ब किमेतत् ? तया कथितो वृत्तान्तः । ततोऽसावभिमानेन गतो गजपुरं, प्रविष्टः सत्रमण्डपम्, अधिष्ठितं सिंहासनं, पायसीभूता दंष्ट्रा भक्षयितुमारब्धाः, श्रुतं तद्रामेण, समागतस्तत्र स सबलः, ततः सुभूमपुण्यानुभावाद्यः प्राक् क्षत्रियसन्निधानेन जज्वाल स विध्यातः परशुः, प्रहरद्वलं भग्नं मेघनादेन, परशुरामं प्रत्युपस्थितो भुक्त्वा गृहीतस्थालः सुभूमः, कृतं तद्देवतया तच्चक्रम् ततस्तेन तं निपात्य राज्यमधिष्ठायैकविंशतिवारान्निर्ब्राह्मणीकृत्य पृथिवीं गतः सप्तमपृथिवीमिति ।।१५० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org