SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ खण्डः-२ दृष्टान्तसमुच्चयः २२३ तच्छुत्वा सर्पिणी सापि हष्टा विश्वासभागभूत् । तत्रायातः कनिष्ठस्तां दृष्ट्वा चैवमवोचत ।।१६।। ज्येष्ठेन रक्षितास्तीयं तथाप्यस्या उपर्यहम् । नेष्ये गंत्री श्रोतुमेतदस्थिभंगस्वरं मुदा ।।१७।। तथा चक्रे स च क्रूरस्तच्छ्रुत्वा सापि पन्नगी । कोऽप्येष मम वैरीति चिन्तयन्ती व्यपद्यत ।।१८ । । सा जज्ञे तव भार्येयं ज्येष्ठो भ्राता विपद्य सः । अस्याः सूनुर्ललितोऽभूत् प्रियः प्राग्जन्मकर्मणा ।।१९।। सोऽयं मृत्वा कनिष्ठोऽस्या अनिष्ठः पूर्वकर्मणा । गंगदत्तः समुत्पेदे प्राक्तनं कर्म नान्यथा ।।२०।। ततो विरक्ता जगृहुः पिता पुत्रौ च ते व्रतम् । जग्मतुः श्रेष्ठिललितौ महाशुक्रमुभौ दिवम् ।।२१।। तत्तु मातुरनिष्टत्वं गंगदत्तः पुनः स्मरन् । विश्ववाल्लभ्यनिदानी महाशुक्रदिवं ययौ ।।२२।। ३५. आभोगध्याने श्रीउपदेशप्रासादे ब्रह्मदत्तसम्बन्धः । कांपील्यपुरेशस्य ब्रह्मराज्ञश्चत्वारि मित्राणि सन्ति-काशीदेशपः कटकः, गजपुरेशः करेणुः (णेरुः), कोशलेशो दीर्घः, चंपाधीशः पुष्पचूलश्च । एते नृपाः स्नेहेनैकैकं वर्षं मिथो राज्येषु समुदितास्तिष्ठन्ति । अन्यदा ते सर्वे ब्रह्मपार्श्वे समागताः । तावता शिरोरोगे समुत्पन्ने ब्रह्मराजा तञ्चतुर्णामुत्संगे सुतं मुक्त्वा 'युष्माभिरेतद्वाज्यसंप्रदायः कारयितव्यः' इत्युक्त्वा मृतः । तेऽपि दीर्घ मुक्त्वा स्वराज्ये गताः । ततो दीर्घश्चुलण्यासक्तो जातः । तद्भावं धनुर्मंत्री ज्ञात्वा स्वपुत्रस्य वरधनुर्नाम्नो ज्ञापितवान्-यथैतत्स्वरूपमेकान्ते चूलनेयस्य ब्रह्मदत्तस्य ज्ञाप्यम् । तेन ज्ञापितोऽसौ कोकिलाकाकयोः संबन्धं कारयन्नन्तरःपुरे गत्वा काकं हत्वोवाच-'योऽन्योऽप्येवं करिष्यति, तमहं निग्रहीष्यामि'। तद्वार्ता दीर्घश्चुलनी प्रत्याह-'अहं काकस्त्वं कोकिला' इति । साह-'बालोऽयं किं वेत्ति आवयोः स्वरूपं'। पुनरेकदा महिषहस्तिनीयुगमानीय पूर्वोक्तवाक्यमुक्त्वा महिषो हतः । ततो दीर्घः-'मत्पापमनेन ज्ञातं, अन्योक्त्या मां शिक्षयति' इति विचार्य राज्ञी प्रति ज्ञापितोऽयं विचारः। ततः सा प्राह-“अयं पुत्रो हन्यते, आवयोः कुशलत्वे बहवोऽपि पुत्रा भविष्यन्ति” । तेनापि स्वीकृतम् । ततः सामन्तसुतां परिणाय्य तच्छयनार्थं जतुगृहं कारयित्वा दत्तम् । वरधनुर्मत्रिणा गुप्तवृत्त्या तगृहमध्यतः पुरोद्यानं यावत्सुरंगा दापिता । शुभदिने जतुगृहे प्रविष्टस्य सवधूवरधनुःकुमारस्य रात्रियामद्वये गते गृहं प्रज्वालितम् । तौ तु सुरंगाय निर्गत्य पूर्वद्वारे मुक्ताश्वयुगलमारा निर्गतौ । पृथ्वी भ्रमतो ब्रह्मदत्तस्य सार्वभौमसंपदमिलत् । वरधनुः सैन्यपतिपदेऽभिषिच्य दीर्घसमीपे प्रेषितः । तदनु ब्रह्मदत्त आगत्य निजचक्रेण दीर्घवपुः कबन्धीकृत्य स्वगेह आगतः । अनुक्रमेण षट्खंडभरतं साधितम् । पुरा तस्यैकाकिनोऽटव्यां भ्रमतो द्विजेनैकेन नीरं पायितमभूत् । स द्विजस्तं चक्रवर्तिपदप्राप्तं ज्ञात्वा 'बहुसैन्ये मां कथं ज्ञास्यति' इति ध्यात्वा जीर्णसूर्पटकपादरक्षणकादिना विसदृशं रूपं कृत्वा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy