________________
२२२
आतुरप्रत्याख्यानप्रकीर्णकम्
ताहे रन्ना सम्माणिऊण, सो पेसिओ नियगिहम्मि । नंदो य नियगहढें, समागओ पुच्छए पुत्तं ।।१६।।
किं रे ! कुसया गहिया, न व त्ति तेणं पयंपियं ताय ! । बहुमुल्ल त्ति न गहिया, तो ताडितो उरं नंदो ।।१७।। हा ! हा ! मुट्ठो त्ति पयंपिरो य, जंघाउ भंजउ कुसेण ।
एयाणमेस दोसो, जेण गओ हं परगिहे त्ति ।।१८ ।। तो वज्झो आणत्तो, सो रन्ना अवहडं च सव्वस्सं । एमाऽऽई बहू दोसा, इच्छाविणिवित्तिरहियाणं ।।१९।। इय खमग ! मणांग पि हु, परिग्गहे मा मणो धरिज्जासि । खणदिट्ठनट्ठरूवे, का वंछा तत्थ धीराण ।।२०।। एवं परिग्गहविसयं, पंचमगं पावठाणगं वुत्तं । कोवसरूवाऽऽवेयण-परमेत्तो भन्नइ छटुं ।।२१।।
[श्रीसंवेगरंगशाला श्लोक ५८८८ तः ५९०९] ३४. अनर्थदण्डध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे गङ्गदत्तस्यावसरः । इतश्च हास्तिनपुरे श्रेष्ठ्यभूत् कोऽपि तस्य च । ललिताख्योऽभवत् पुत्रो मातुरत्यंतवल्लभः ।।१।। श्रेष्ठिन्यान्यदा जज्ञे गर्भः संतापदो भृशम् । तया च विविधद्रव्यैः पात्यमानोऽपि नापतत् ।।२।। जातश्च पुत्रः श्रेष्ठिन्या दास्यै त्यक्तुं च सोऽर्पितः । दृष्टश्च श्रेष्ठिना पृष्टा किमेतदिति दास्यथ ।।३।। असावनिष्टः श्रेष्ठिन्यात्याज्यतेति तयोदिते । श्रेष्ठी गृहीत्वा तं छन्नमन्यत्र समवर्धयत् ।।४।। गंगदत्त इति नामादत्त तस्य शिशोः पिता । मातुश्छन्नं ललितोऽपि लालयामास तं सदा ।।५।। पितरं ललितोऽन्येधुरभ्यधत्त मधूत्सवे । भोज्यते गंगदत्तोऽद्य सह चेच्छोभनं तदा ।।६।। श्रेष्ठयूचे यदि ते माता तं पश्येत्तन्न शोभनम् । ललितोऽप्यब्रवीत्तात यतिष्ये तददर्शने ।।७।। श्रेष्ठिनापि तथादिष्टो ललितो गंगदत्तकम् । तिरस्करिण्यांतरितं भोजनार्थं न्यषेदयत् ।।८।। पुरस्तात् स्वयमासीनौ तौ श्रेष्ठिललितौ तदा । भुंजानौ गंगदत्ताय भोज्यं छन्नं च यच्छतः ।।९।। वातोद्धृतेऽकांडपटे श्रेष्ठिनी तं ददर्श च । केशैः कृष्ट्वा कुट्टयित्वा गृहश्रोतसि चाक्षिपत् ।।१०।। उद्विग्नौ श्रेष्ठिललितौ श्रेष्ठिन्याश्छन्नमेव तम् । स्नपयित्वाबोधयतां गंगदत्तं महामती ।।११।। तदा च साधवस्तत्र भिक्षार्थं समुपागताः । पृष्टाश्च ताभ्यां श्रेष्ठिन्यास्तत्पुत्रद्वेषकारणम् ।।१२।। अथैकः साधुरित्याख्यदेकस्मिन् संनिवेशने । अभूतां भ्रातरौ तौ तु बहिः काष्ठार्थमीयतुः ।।१३।। काष्ठैर्भूत्वा तथा गंत्रीमग्रस्थो ज्येष्ठ आपतत् । ददर्श पथि वेल्लती चक्कलुण्डा महोरगीम् ।।१४।। सोऽप्यवोचत् कनीयांसं गंत्र्याः सारथिमग्रतः । गंत्रीतो रक्षणीयेयं चक्कलुंडा वराकिका ।।१५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org