________________
२२०
आतुरप्रत्याख्यानप्रकीर्णकम्
ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं भविष्यसि । अलं जुगुप्सनीयेन कर्मणाऽनेन दारक !।।९२ ।। तच्छ्रुत्वा भवदेवोऽपि निजगादेति हे बटो ! । त्वं भविष्यसि वान्ताशी निकृष्टः कुक्कुरादपि ।।१३।। नागिलोवाच तमृषि यद्येवं वेत्सि वक्षि च । तन्मामुद्वम्य किमिति भूयोऽप्युपबुभुक्षसे ।।९४ ।। मांसमृगस्थिविण्मूत्रपूर्णाऽहमधमाधमा । वान्तादपि जुगुप्स्याऽस्मि मामिच्छन् किं न लज्जसे ? ।।९५ ।। पश्यस्यद्रौ ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् ।।९६।। का हि पुंगणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् ।।९७ ।। भवदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे ! । आनीतः पथि जात्यन्ध इव यानहमुत्पथे ।।९८ ।। तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तप्स्येऽहं दुस्तपं तपः ।।९९ ।। नागिलाऽप्यवदत् किं ते स्वजनैः स्वार्थभाग्भव । मूर्तिमन्तो हि ते विघ्ना भाविनो गुरुदर्शने ।।१०० ।। तद् गच्छ गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनीजनसन्निधौ ।।१०१।। भवदेवोऽथ वन्दित्वाऽर्हद्विम्बानि समाहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् ।।१०२।। श्रामण्यं निरतीचारं भवदेवः प्रपालयन् । कालं कृत्वाऽऽदिकल्पेऽभूच्छक्रसामानिकः सुरः ।।१०३।।
परिशिष्टपर्व० श्लोक-२८७ तः ३८९] ३१. संग्रहध्याने श्रीआवश्यकहारिभद्रीयव्याख्यायां मम्मणस्याख्यानकम् । ___णयरे मम्मणोत्ति, तेण महया किलेसेण अइबहुगं दविणजायं मेलियं, सो तं ण खायइ ण पिवइ, पासाउवरिं चऽणेण अणेगकोडिनिम्मायगब्भसारो कंचणमओ दिव्वरयणपज्जत्तो वरवइरसिंगो महंतो एगो बलद्दो काराविओ, बीओ य आढत्तो, सोऽवि बहुनिम्माओ, एत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबिइज्जो णईपूराओ कट्ठविरूढगो कट्ठाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिट्ठो, तओ तीए सामरिसं भणियं-सञ्चं सुव्वइ एयं मेहनइसमा हवंति रायाणो । भरियाइं भरेंति दढं रित्तं जत्तेण वज्जेइ ।।१।। रण्णा भणियं-किह वा ?, तीए भणियं-जं एस दमगो किलिस्सइ, रण्णा सद्दाविओ भणिओ य-किं किलिस्ससि ?, तेण भणियं-बलद्दसंघाडगो मे ण पूरिज्जइ, रण्णा भणियं-बलद्दसयं गेण्ह, तेण भणियं-ण मे तेहिं कज्जं, तस्सेव बितिज्जं पूरेह, केरिसो सोत्ति घरं नेऊण दरिसिओ, रण्णा भणियं-सव्वभंडारेणवि न पूरिज्जइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिण्हाएत्ति, तेणं भणियं-जावेसो न पूरिओ ताव मे न सुहं, आरद्धो य उवाओ पेसियाणि दिसासु भंडाणि आढत्ताओ किसीओ आढत्ताणि गयतुरयसंडपोसणाणि, रण्णा भणियं-जइ एवं ता किं थेवस्स कए
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org