________________
खण्ड:-२ दृष्टान्तसमुच्चयः
यूथभ्रष्टेव हरिणी पाशबद्धव शारिका । सा मन्ये दैन्यभाग्लोकानुकम्प्यैव भविष्यति ।।६८ ।। (युग्मम्) यदि प्राप्स्यामि जीवन्तीं तां प्रियामायतेक्षणाम् । तदद्यापि हि गार्हस्थ्यातृप्तो रंस्ये तया सह ।।६९ ।। चिन्तातन्तुभिरेवं स्वं नियच्छन्नूर्णनाभवत् । स्थविरर्षीननापृच्छ्य भवदेवो विनिर्ययौ ।।७० ।। तूर्णं जगाम च ग्रामं सुग्रामं राष्ट्रकूटभूः । तस्थौ च संवृतद्वारबाह्यायतनसन्निधौ ।।७१।। गन्धमाल्यधरा नारी ब्राह्मण्या सममेकया । तन्नाभ्यागान्मुनिरसावित्यवन्दत तं च सा ।।७२।। पप्रच्छ भवदेवस्तां राष्ट्रकूटः स आर्यवान् । पत्नी च रेवती तस्य भद्रे ! जीवति वा न वा ? ।।७३।। कथयामास साप्येवमार्यवान्नेवती च सा । व्यपद्येतां तयोश्चागाद् भूयान्कालो विपन्नयोः ।।७४ ।। भूयोऽप्यपृच्छत्स मुनिरार्यवत्सूनुना प्रिया । भवदेवेन या त्यक्ता नवोढा साऽस्ति वा न वा ? ।।७५ ।। सा दध्यौ भवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येतमनेनसमिहागतम् ।।७६।। उवाच चिन्तयित्वैवमार्यवद्रेवतीसुतः । त्वमेव भवदेवोऽसि ? किमिहागास्तपोधन ! ।।७७ ।। भवदेवोऽवदत्साधु त्वयाऽहमुपलक्षितः । स एव भवदेवोऽस्मि नागिलाजीवितेश्वरः ।।७८ ।। तदाऽग्रजोपरोधेन तां विमुच्य निरीयुषा । अनिच्छतापि हि मया व्रतमादायि दुष्करम् ।।७९।। विपन्ने साम्प्रतं भ्रातर्यहमङ्कुशवर्जितः । नागिला सा कथमभूदित्यागां तद्दिदृक्षया ।।८।। नागिला चिन्तयामास चिराद् दृष्टां हि मामसौ । न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् ।।८१।। आत्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला । नागिला साऽस्म्यंह हन्त नवोढाऽत्याजि या त्वया ।।८२।। एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय ! विमृश्यताम् ।।८३।। मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिभां मा ग्रहीतँ महाशय ! ।।८४ ।। अत्यन्तघोरनरकपातप्रतिभुवामहो । विषयाणां स्मरास्त्राणां मा गास्त्वं भेदनीयताम् ।।८५।। ग्राहितोऽसि व्रतं भ्रात्रा छद्मनाऽपि हितैषिणा । तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः ।।८६।। तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ।।८७।। यावदेवं भवदेवं नागिला भृशमान्वशात् । ब्राह्मण्या दारकस्तावत्तत्राऽऽगाद् भुक्तपायसः ।।८८।। ऊचे च पायसं भुक्तं यन्मयाऽद्य सुधोपमम् । तद्वमिष्याम्यहं मातरधो धारय भाजनम् ।।८९।। निमन्त्रितोऽहमन्यत्र लप्स्ये तत्र च दक्षिणाम् । अवान्तपायसो मातभॊक्तुं शक्ष्यामि नो पुनः ।।१०।।
आदाय दक्षिणामत्रागतो भूयोऽपि पायसम् । स्वयं वान्तं स्वयं भोक्ष्ये का हीः स्वोच्छिष्टभोजने ।।९१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org