________________
२१८
आतुरप्रत्याख्यानप्रकीर्णकम्
भक्तपानादिभारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयद्वोढुं प्रसीदन्घृतभाजनम् ।।४३।। चिरादभ्यागतं श्रान्तं ज्यायांसं भ्रातरं मुनिम् । अमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ।।४४।। माऽसौ वलेदिति मनोव्याक्षेपार्थं कनीयसः । गार्हस्थ्यवार्ता प्राक्रस्त भवदत्तो महामुनिः ।।४५।। एते ते ग्रामपर्यन्तपादपाः पान्थमण्डपाः । भ्रातरावां वानरवद्येषु स्वैरमरंस्वहि ।।४६।। सरोवराणि तान्येतान्यावाभ्यां यत्र शैशवे । अकारि नलिनीनालैहरिश्रीः कण्ठयोमिथः ।।४७।। एताश्च ग्रामपर्यन्तभूमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ।।४८।। भवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् ।।४९।। सानुजं भवदत्तर्षि वसतिद्वारमागतम् । निरीक्ष्य क्षुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ।।५० ।। दिव्यवेषधरो नूनमनुजो मुनिनाऽमुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः ।।५१ ।। सूरिरूचे भवदत्त ! तरुणः कोऽयमागतः । सोऽवदद्भगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ।।५२।। सरिणा भवदेवोऽपि पप्रच्छे किं व्रतार्थ्यसि ? । मा भूद् भ्राता मृषावादीत्येवमित्यवदत्स तु ।।५३।। भवदेवस्तदैवाथ पर्यव्राज्यत सूरिभिः । साधुभ्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ।।५४ ।। भवदेवः किमद्यापि नायात ? इति चिन्तया । स्वजनाः पृष्ठतोऽभ्येत्य भवदत्तं बभाषिरे ।।५५ ।। भवदेवोऽन्वगाधुष्मान्प्रियां हित्वाऽर्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन्जीवन्मृता वयम् ।।५६।। खिद्यते चक्रवाकीव सा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ।।५७ ।। एकाक्यस्माननापृच्छ्य भवदेवः क्वचिद्व्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ।।५८ ।। नष्टस्वानिव ग्रहिलान्भवदेवमपश्यतः । अस्माननुगृहाणर्षे ! कथय व स तेऽनुजः ? ।।५९।। धर्मोदकेच्छुरनुजस्योचे मिथ्याऽप्यथो मुनिः । यात आयातमात्रोऽपि न विद्मः स ययौ क्वचित् ।।६० ।। गतोऽन्येनाध्वना किं स ? इति जल्पन्त आशु ते । प्रत्यावर्तन्त दीनास्या दस्युभिर्मुषिता इव ।।६१।। तां नवोढां हृदि ध्यायन्भ्रातृभक्त्यैव केवलम् । प्रव्रज्यां भवदेवोऽपि सशल्यां पर्यपालयत् ।।६२ ।। महर्षिर्भवदत्तोऽपि कालेन बहुनेयुषा । विपेदेऽनशनं कृत्वा सौधर्मे च सुरोऽभवत् ।।६३।। भवदेवोऽप्यदो दध्यौ नागिला प्रेयसी मम । प्रेयांस्तस्या अहमपि विरहो ही द्वयोरभूत् ।।६४ ।। भ्रातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं मे व्रतेनायासहेतुना ।।६५ ।। न तथा व्रतकष्टेन दुष्करेणास्मि पीडितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु सा ? ।।६६।। गजीव चारीपतिता पद्मिनीव हिमाविला । मरालीव मरुगता वल्लीव ग्रीष्मतापभाक् ।।६७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org