________________
२१६
आतुरप्रत्याख्यानप्रकीर्णकम्
वराटिकाकृते तस्मान्मा स्म कोटिं विनाशय । तस्माद्धीरत्वमाधाय, शुद्धधर्मं समाचार ।।२।। इत्यादितदुक्तिं युक्तियुक्तामाकण्येदं दध्यौस्त्रीजातावपि धन्याऽसौ, निधानं गुणसंपदाम् । कुकर्मजलधौ मग्नो, धिगहं पुरुषोऽपि हि ।।३।। एवं तस्या राजिमत्याः सुमत्याः, श्रुत्वा शिक्षा दक्षमुख्यस्तदैव ।
दत्त्वा मिथ्यादुत्कृतं श्री जिनान्ते, भूयो धर्मं साधुचीर्णं चचार ।।४।। ३०. सङ्गध्याने श्रीपरिशिष्टपर्वान्तर्गता भवदेववार्ता ।
आचख्यौ प्रभुरप्येवं जम्बूद्वीपस्य भारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ।।२।। आर्यवान्राष्ट्रकूटोऽभूत्तस्य पत्नी तु रेवती । भवदत्तो भवदेवश्चाभूतां तनयौ तयोः ।।२।। (युग्मम्) भवदत्तो भवाम्भोधेरुत्तारणतरी दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ।।३।। स व्रतं पालयन्खड्गधारोग्रं श्रुतपारगः । व्यहरद् गुरुणा सार्धं द्वैतीयकीव तत्तनुः ।।४।। तस्मिन्गच्छे साधुरेकोऽन्यदाऽऽचार्यान् व्यजिज्ञपत् । अनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ।।५।। तत्रास्ति मे लघुभ्राता स भृशं स्नेहलो मयि । प्रव्रजिष्यति मां दृष्ट्वा प्रकृत्याऽग्रेऽपि भद्रकः ।।६।। ततस्तं श्रुतभृत्साधुसमेतं गुरुरादिशत् । परनिस्तारणपरे गुरुः शिष्ये हि मोदते ।।७।। स जगाम पितुर्धाम गतमात्रो ददर्श च । भ्रातुरुद्वाहमारब्धं मन्मथद्रुमदोहदम् ।।८।। विवाहकौतुकव्यग्रः स भ्राता कन्यसो मुनेः । विस्मृतान्यकरणीयो मुद्वातूलस्तदाऽभवत् ।।९।। विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथाऽपि का ।।१०।। विलक्षः स मुनिर्भूयोऽप्यागमत्सन्निधौ गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा ।।११।। भवदत्तोऽवददहो ! काठिन्यमनुजन्मनः । ज्यायांसं यदवाज्ञासीदृषिमभ्यागतं गृहे ।।१२।। गुरुभक्तेरपि श्रेयः किं नामोद्वाहकौतुकम् ? । तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् ।।१३।। कश्चिदूचे तदा साधुर्भवदत्तासि पण्डितः । यदि त्वमनुजन्मानं निजं प्रव्राजयिष्यसि ।।१४ ।। भवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ।।१५।। विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ।।१६।। आचार्यपादान् वन्दित्वा भवदत्तो व्यजिज्ञपत् । स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया ।।१७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org