________________
खण्ड:-२ दृष्टान्तसमुच्चयः
२१५
मा भूद्विनाशो जलकायिकानां, मद्देहसङ्गेन तदेति वृष्ट्याम् । भिक्षानिवृत्तो रथनेमिसाधुर्विवेश कस्यांचन कन्दरायाम् ।।१।। व्यावर्तमाना प्रणिपत्य नाथं, राजीमती साऽपि भयेन वृष्टेः । पूर्वप्रविष्टं तमजानती द्राग्विवेश तामेव गुहां नगस्य ।।२।। गताऽपि मध्ये न तमन्धकारे, ददर्श कोणे स्थितमेतदीये । क्लिन्नानि किञ्चिद्वसनानि साध्वी, ततश्च निःशोषयितुं प्रवृत्ता ।।३।। स्वर्गलोकजयायैव, साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वीं, बभूवोत्कलिकाकुल: ।।४।। एतस्य सोदरेणाहमाजन्मापि तिरस्कृतः । इति भ्रातृविरोधेन, स्मरो मुनिमपीडयत् ।।५।। पिण्डितं सृष्टिसर्वस्वमिवासौ हा मृगेक्षणा । नैकशोऽपि मया भुक्ता, धिम्मे जन्म निरर्थकम् ।।६।। ईषत्कम्पवपुर्भृत्य, इवोत्थाय विसंस्थुलः ।
रथनेमिः पुरस्तस्यास्तस्थावुत्तानितेक्षणः ।।७।। हे भद्रे ! स्वेच्छयाऽऽगच्छ, आवां जन्म सफलं कुर्वहे । पुनः प्रान्ते उभावपि तपोविधिं चरिष्यावः । श्रुत्वेत्यव्याजचित्ता सा धीरतां धारयित्वा सती स्पष्टमभाषिष्ट । यतः
प्रावृत्य वासांसि तदैव साध्वी, साधुं सुधासोदरया गिरा तम् । प्रचक्रमे वक्तुमियं मुनीन्दो, न युज्यतेऽदस्तव सव्रतस्य ।।१।। साधो क्व ते जन्म कुलेऽमलेऽस्मिन्, क्वेदं कुकर्माञ्जनतोऽपि कालम् ।
निर्वाहयस्व व्रतमेतदात्तं, क्षतव्रताः स्युर्न कदापि धीराः ।।२।। अन्यच्चसंयतीप्रतिसेवायां धर्मोड्डाहर्षिघातयोः । देवद्रव्यविनाशे च, बोधिघातो निवेदितः ।।३।। पूर्वं गृहस्थया मया वाचाऽपि यस्त्वं नेहितः, व्रतप्रतिज्ञाता साऽहं त्वामद्य कथमाद्रिये ? अगन्धनकुलजा भुजङ्गमास्तेऽपि वर्याः ये वान्तं विषं नाश्नन्ति, त्वं तु ततोऽपि निकृष्टः, खण्डितशीलस्येदं जीवितं धिक् । यतः
दयँ दर्थ्यं योषितं चेद्विधत्से, भावं कामाराधने साधुवर्य । तद्भो वातालिङ्गितो वाहवस्त्वं, मुग्धो धैर्येणास्थितात्मेव भावी ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org