SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ . २०४ o आतुरप्रत्याख्यानप्रकीर्णकम् ब्रह्मविरतिव्रतम् । समाप्तेऽभिग्रहे समायाताः साधवः, स्थूलभद्रं विहायेतरे दुष्करकारका इति वदतोपबंहिताः शेषसाधुसमक्षं गुरुणा । समागतः स्थूलभद्रः, तं प्रति ससम्भ्रमं दुष्करदुष्करकारक इति वदता कृतोपबृंहणा । ततः प्राक्तनमैश्वर्यमधिकृत्याऽयं सुकरकारकोऽपि वर्ण्यते गुरुभिः । अहो लोकाचारपरतामीषाम् ! इति जातमितरेषां चित्तकालुष्यम् । ततः पुनः समाहिण्ड्याऽन्यत्र अन्यस्मिन् वर्षे तत्रैवागतेष्वभिग्रहग्रहणोद्यतेषु साधुषु सिंहगुहावासिनोक्तमहं कोशाभगिन्युपकोशासदने चातुर्मासं निरशनः स्थास्यामीति । नोचितस्त्वमस्येति निवारितो गुरुणा, प्रतिकूल्य तद्वचो गतो तद्भवनम् । दृष्टस्तया, स्थूलभद्राऽसूययाऽयमागत इति भावज्ञतया संलक्ष्यानुज्ञाता तया तस्य वसतिः । ततो दर्शयाम्यस्य तद्गुणाऽसहनफलमिति सञ्चिन्त्य रात्रावतिचर्चितशरीरा मदनोत्कोचकारिभिर्गात्रवचनविभ्रनैरुपसर्गरुपसर्गयितुमारब्धा । ततश्चलचित्ततया विस्मृतात्मावस्थेन तेन प्रार्थिता सा प्राह, न वयं निर्धानानां भवामः । सोऽचिन्तयदुत्तरापथे श्रूयतेऽपूर्वसाधोर्लक्षमूल्यकम्बलदाता राजा तद् गच्छामि, तत्र गतः, लब्ध्वा कम्बलमागतः समर्पितवाश्च तस्याः । तयापि तस्य पश्यत एव निक्षिप्तोऽसौ वक़गृहे स प्राह-किमयं त्वया विनाशितः !' इतराऽऽह-'किमिदं जानीषे ?' स प्राह- 'किमत्र ज्ञातव्यं ?' इतराऽऽह 'यद्येवं तर्हि किमित्यशुचिपूर्णेन मामकदेहेनाऽनर्घ्यगुणरत्नाव्यतिरिक्तात्मा सम्पर्कमभिलसति ?' तदाकार्य पुनरागतश्चरणपरिणामः । अहो ! निरन्तरं भवगर्ने पतन्नहमुद्धृत इति विचिन्त्यासावाह-'साधुविवेकिनि साधु ! इच्छाम्यनुशास्तिं, निवृत्तोऽहमितो दुरध्यवसायात् ।' सा प्राह- युक्तमिदं भवादृशां, ततो गत्वा गुरुसमीपं दत्तालोचनो विहितप्रायश्चित्तो भावसारं प्रतिक्रान्त इति । २७. कलहध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे दुर्योधनप्रसंगः । रुक्मिण्याश्च गृहेऽन्येधुरतिमुक्तर्षिरागतः । तं दृष्ट्वा सत्यभामापि तत्रैवाशु समाययौ ।।१।। रुक्मिण्याप्रच्छि स मुनिः किं मे स्यात्तनयो न वा । भावी कृष्णसमः पुत्रस्तवेत्युक्त्वा ययौ च सः ।।२।। सत्यभामा मुनिवचो मन्यमाना तदात्मगम् । उवाच रुक्मिणी सूनुर्भावी कृष्णसमो मम ।।३।। प्रत्यूचे रुक्मिणी नर्षिवचनं फलति च्छलात् । एवं विवदमाने ते कृष्णाभ्यर्णमुपेयतुः ।।४।। तदा दुर्योधनो राजा तत्रायातः स्वसोदरः । भामयोचे मम सुतो जामाता ते भविष्यति ।।५।। रक्मिण्यापि तथोक्तः स स्माह दास्ये सुतामहम् । तस्मै यं युवयोरेका तनयं प्रसविष्यते ।।६।। भामोवाच सुतो यस्याः प्रथमं परिणेष्यति । तद्विवाहेऽन्यया केशा देयास्तस्याः स्वकाः खलु ।।७।। साक्षिणः प्रतिभुवश्च रामपादा जनार्दनः । दुर्योधनश्चेत्युदित्वा स्वौको द्वे अपि जग्मतुः ।।८।। [श्रीत्रिषष्टिशलाका० पर्व-८ श्लोक-११० तः ११७] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy