________________
खण्ड: - २ दृष्टान्तसमुच्चयः
तयेत्याक्रुश्यमानोऽपि भूयो भूयो दशाननः । तथैवोवाच धिगहो कामावस्था बलीयसी ।।१७।। अत्रान्तरे विपन्मग्नां सीतां द्रष्टुमिवाक्षमः । निममज्ज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ।।१८।। प्रावर्तत निशा घोरा घोरबुद्धिश्च रावणः । सीतायै क्रोधकामान्ध उपसर्गान् प्रचक्रमे ।।१९।। घूत्कारिणो महाघूकाः फेत्कुर्वाणाश्च फेरवः । वृका विचित्रं क्रन्दन्त ओतवोऽन्योऽन्ययोधिनः ।।२०।। पुच्छाच्छोटकृतो व्याघ्राः फूत्कुर्वाणाः फणाभृतः । पिशाचप्रेतवेतालभूताश्चाकृष्टकर्त्रिकाः ।। २१ ।। उल्ललन्तो दुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः ।। २२ ।। ।। त्रिभिर्विशेषकम् ।। ध्यायन्ती मनसा पञ्चपरमेष्ठिनमस्क्रियाम् । सीता तस्थावभीतैव न तु भेजे दशाननम् ।।२३।। [श्रीत्रिषष्टिशलाका० पर्व - ७ श्लोक - १२६ तः १४८ ] २६. कलुषध्याने श्रीउपदेशमालाहेयोपादेयायामुदितः पीठ - महापीठावसरः ।
महाविदेहे गृहस्थपर्यायचक्रवर्तिवैरनाभाचार्यान्तेवासिनस्तल्लघुभ्रातरो बाहु- सुबाहु -पीठ - महापीठाएकादशाङ्गधरा आसन् । तत्र बाहुः क्षयोपशमवशात् पञ्चशतिकगच्छस्य वैयावृत्त्यमकरोत् । सुबाहुर्मर्दनादिना खेदविनोदम्, इतरौ स्वाध्यायमिति । अन्यदा कस्मिंश्चित्प्रस्तावे तद्गुणानुत्कीर्त्य धन्यौ कृतार्थावेताविति श्लाघितौ बाहु- सुबाहू गुरुणा । ततोऽद्यापि राजस्वभावं नैते मुञ्चन्ति येनात्मकृत्योद्यतावेतौ श्लाघयन्ति, न पुनः स्वाध्यायरतावावामिति जातमितरयोर्गुरुविषयं मनाक् चित्तकालुष्यम् । तदवधीरणया विशेषतोऽनालोच्य कालं कृत्वा सर्वार्थसिद्धवमाने समुत्पद्य ततश्च्युत्वा तन्मनोदुष्कृतकर्मपरिणतिवशात् समुत्पन्नौ स्त्रीभावेन ब्राह्मीसुन्दरी चेति, वैरनाभ-बाहुसुबाहवस्तु तस्मिन्नेवोत्पद्य ततश्च्युत्वा ऋषभदेव भरत - बाहुबलिभावेन जाता इति । २६. कलुषध्याने श्रीउपदेशमालाहेयोपादेयावृत्तौ सिंहगुहावासिनः साधोः द्रष्टान्तः ।
२०३
पाटलीपुत्रे आर्यसम्भूतविजयाऽऽचार्यस्य शिष्या वर्षाकालाऽऽद्यदिने स्वशक्तिधृतिप्रत्यायितगुरवोऽभिग्रहानेवम्भूतान् गृह्णन्ति स्म । एकः सिंहगुहायां निरशनश्चातुर्मासम्, अन्यस्तथैव सर्पदरीसमीपे, अपरस्तथैव कूपफलके, स्थूलभद्रस्तु गृहस्थावस्थोपभुक्तायाः कोशागणिकाया गृहे सभोजनं गृहीतवान् ।
गृहीत्वा गताः स्वस्थानेषु । उपशमितौ सिंहभुजगौ । कोशा पुनः प्रायः परीषहपराभग्नोऽयमित्यभिप्रायेणविविधबिब्बोकैः स्थूलभद्रमुपसर्गयन्ती तन्निष्प्रकम्पतां निरीक्ष्य निर्विण्णा पतिता तच्चरणयोः । ज्ञाताभिप्रायेण कथितस्तेन धर्मः । जाता श्राविका राजाभियोगं विहाय गृहीतम
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org