________________
खण्डः - २ दृष्टान्तसमुच्चयः
अत्थि ते कोइ अरहन्नओ दिट्ठो ?, एवं विलवमाणी भमइ, जाव अन्नया तेण पुत्तेण ओलोयणगएण दिट्ठा, पञ्चभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्थचित्ता जाया, ताहे भण्णइ - पुत्त ! पव्वयाहि, मा दुग्गइं जाहिसि, सो भणइ-न तरामि काउं संजमं, जदि परं असणं करेमि, एवं करेहि, माय असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेइ, मुहुत्तेण सुकुमालसरीरो उण्हेण विलाओ, पुव्विं तेण नाहियासिओ पच्छा तेऽहियासितो |
२५. कामध्याने श्रीअष्टाह्निकाप्रवचने कुमारनन्दिसुवर्णकारसम्बन्धः ।
चंपायामाजन्म स्त्रीलंपटः कुमारनंदिः स्वर्णकृत् यां यां सुरूपां कन्यां शृणोति तां स्वर्णपंचशतीं दत्त्वा गृह्णाति, एवं पंच शतानि (५००) स्त्रियो जाताः, ताभिः सहैकस्तंभसौधेऽरंसीत्, तस्य नागिलश्राद्धः मित्रमस्ति, एकदा पंचशैलाधिपव्यंतरदेव्यौ शक्राज्ञया नंदीश्वरे प्रास्थिषातां तदानीं तत्पतिर्विद्युन्माली च्युतः, ततस्ते 'हासा' 'प्रहासा' नाम्न्यौ कामुकं तं स्वर्णकृतं दृष्ट्वा तत्रावातरतां, दृष्ट्वा परिरब्धुकामः स्वर्णकारः प्रोवाच के युवाम् ? किमर्थमागते ?, ते प्रोचतुः - भवदर्थम्, प्राप्तसंज्ञः स हेमकृत् प्रार्थनां चक्रे, ते ऊचतुः त्वं पंचशैले समागच्छेः, तत्रावयोः संगो भावीत्युक्त्वा ते उत्पतिते, सोऽपि स्वर्णकार, भूभुजे स्वर्णं दत्त्वा इति पटहमवादयत्, “यो मां पंचशैलद्वीपे नेता स द्रव्यकोटिं लप्स्यते" एकेन निर्यामकस्थविरेण पटहो धृतः कोटिधनं चाददे, तेन यानपात्रं सज्जीकृतं, स्वर्णकृता साकं पोतस्थो वृद्धोऽब्धिवर्त्मनि सुदूरमागत्य तमित्यूचे - भो कुमार ! दूरे प्रेक्षसे किंचित् ?, सोऽवोचत् दृश्यते वृक्ष एकः, स ऊचे - अब्धिकूले तच्छैलपादजातोऽयं वटो दृश्यते, यदा पोतोऽस्याधो याति तदाऽस्य शाखायां त्वं विलगेः, निश्यत्र भारंडाः समेष्यंति, तेषु सुप्तेषु कस्यचिद्रंघ्रौ पटेन स्वं बद्ध्वा दृढमुष्टिना विलगेः, प्रातरुड्डीनास्ते त्वां पंचशैले नेष्यंति, यदि वटेऽविलग्नस्त्वं तदा एतद्यानपात्रमिव महावर्त्ते पतित्वा विनंक्ष्यसि तथा कृते स पक्षिणा तत्र निन्ये, स क्रमेण, हासाप्रहासाभ्यां दृष्टः, तेनापि भोगार्थं प्रार्थिते, ताभ्यां प्रोचे - अनेनाङ्गेनावयोः संगो न भवेत्, किंतु अग्निप्रवेशादिना कृतनिदानेन त्वं पंचशैलेशो भव, स दध्यौ - उभयतो भ्रष्टोऽहमिति, चिंतार्त्तस्ताभ्यां खपुरे मुक्तः, ततः स देवाङ्गनाङ्गमोहितोऽग्निसाधनं प्रारेभे तदा नागिलश्राद्धेनोक्तम्मित्र ! बालमरणं नार्हं तवेत्यादि, तेन वार्यमाणोऽपि निदानेनाग्निशरणं कृत्वा स पंचशैलेशो जज्ञे, नागिलस्तद्वैराग्यात्प्रव्रज्याच्युते देवो जातः । अन्यदा नंदीश्वरयात्रार्थं प्रस्थितानां देवानां पुरो गातुं तदाज्ञया हासाप्रहासे चलिते स्वपतिमूचतुः - स्वामिन् ! त्वं पटहं वादय, सोऽहंकारेण नोऽवादयत्, तदा दुष्कर्मणा पटहः कंठे व्यलगत्, तदानीं ताभ्यामुक्तं - भो प्राणेश ! कुलोचितं कुरु मा त्वं
2
Jain Education International 2010_02
२०१
For Private & Personal Use Only
www.jainelibrary.org