SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः १९९ २४. स्नेहध्याने श्रीपरिशिष्टपर्वमध्ये वज्रं प्रति सुनन्दायाः स्नेहविलापः ।। इतश्च वज्रस्तत्रस्थः क्रमेणाभूत्रिहायनः । तदा च धनगिर्याद्यास्तत्र साधव आययुः ।।१।। आयास्यति धनगिरिर्ग्रहीष्यामि स्वमात्मजम् । सुनन्दैवं चिन्तयन्ती तेष्वायातेष्वमोदत ।।२।। सुनन्दापि महर्षिभ्यः स्वनन्दनमयाचत । ते पुनर्नार्पयामासुः प्रत्यभाषन्त चेदृशम् ।।३।। अयाचितस्त्वया दत्तो मुग्धेऽस्मभ्यमयं शिशुः । वान्तान्नमिव को दत्तं पुनरादातुमिच्छति ? ।।४।। विक्रीडेष्विव दत्तेषु स्वामित्वमपगच्छति । मा याचिष्ठाः सुतं दत्त्वा त्वयैष परसात्कृतः ।।५।। पक्षयोरुभयोरेवमुच्चैर्विवदमानयोः । लोकोऽवादीदमुं वादं राजा निर्धारयिष्यति ।।६।। ततः सुनन्दा लोकेन सहिता नृपपर्षदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः ।।७।। राज्ञो न्यषीदद्वामेन सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तोऽपि यथास्थानमथापरे ।।८।। परिभाव्य द्वयोर्भाषामुत्तरं चावदन्नृपः । येनाहूतः समायाति बालस्तस्य भवत्वसौ ।।९।। तं निर्णयममंसातां तौ तु पक्षावुभावपि । इति चोचतुरादौ कः सूनुमाह्वातुमर्हति ।।१०।। स्त्रीगृह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसङ्घटितप्रेमा तद्वचो नातिलङ्घते ।।११।। मातैवाह्वयतामादावियं दुष्करकारिणी । नारीति चानुकम्प्यापि भवत्येतद्धि नान्यथा ।।१२।। ततः सुनन्दा बहुशो बालक्रीडनकानि च । विविधानि च भक्ष्याणि दर्शयन्त्येवमभ्यधात् ।।१३।। हस्तिनोऽमी अमी अश्वाः पत्तयोऽमी अमी रथाः । तव क्रीडार्थमानीतास्तद्गृहाणैहि दारक ! ।।१४ ।। मोदका मण्डका द्राक्षाः शर्कराश्चान्यदप्यदः । यदिच्छसि तदस्त्येव गृह्यतामेहि दारक ! ।।१५।। तवायुष्मन्कृषीयाहं सर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय ।।१६।। मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासीति मां दीनां परिष्वङ्गेण जीवय ।।१७।। विलक्षां मा कृथा वत्स ! मां लोकस्यास्य पश्यतः । हृदयं मेऽन्यथा भावि पक्ववालुङ्कवद् द्विधा ।।१८।। एहि हंसगते वत्स ! ममोत्सङ्गं परिष्कुरु । कुक्षिवासावक्रयो मे न लभ्यः किमियानपि ।।१९।। एवं क्रीडनकैर्भक्ष्यप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दाया नाभ्यग्च्छन्मनागपि ।।२०।। न मातुरुपकारणां कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ।।२१।। यदि सङ्घमुपेक्षिष्ये कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारो दीर्घदीर्घतरः खलु ।।२२।। इयं च धन्या माता मेऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःखमप्यदः ।।२३।। दीर्घदर्शी विमृश्यैवं वज्रो वज्रदृढाशयः । प्रतिमास्थ इव स्थानान्न चचाल मनागपि ।।२४।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy