SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९८ आतुरप्रत्याख्यानप्रकीर्णकम् वने विहरतो भर्तुः, प्रभावाच्छापदा अपि । नोपद्रवं कर्तुमलं, पाषाणघटिता इव ।।२१।। क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्यं, ते कर्मद्वेषिसूदने ।।२२।। न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराज्जातकेवलोत्सववार्त्तया ।।२३।। अत्रान्तरे महीभर्तुओपितौ वेत्रपाणिना । नाम्ना यमक-शमको, पुरुषावभ्युपेयतुः ।।२४ ।। प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवाऽनया कल्याणवार्त्तया ।।२५।। पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ।।२६ ।। प्रणम्य शमकोऽप्युच्चैःस्वरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत ।।२७।। उत्पन्नकेवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽर्चामिति दध्यौ क्षणं नृपः ।।२८।। क्व विश्वाभयदस्तातः ?, क्व चक्रं प्राणिघातकम् ? । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः ।।२९।। यथोचितमथो दत्त्वा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च ।।३०।। देवि ! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् ।।३१।। त्रैलोक्यस्वामिताभाजः, स्वसूनोस्सस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽरोहयामास तां गजे ।।३२।। सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मूर्त्तश्रीमयैः सोऽचलत् ततः ।।३३।। सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः ।।३४।। मरुदेवामथाऽवादीद्, भरतः परतो हृदः । प्रभोः समसरणं, देवि ! देवैर्विनिर्मितम् ।।३५ ।। अयं जयजयारावतुमुलस्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् ।।३६ ।। गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिर्नदन् । तनोति हृदयानन्दं, वैतालिक इव प्रभोः ।।३७ ।। स्वामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवणातिथिरेष नः ।।३८ ।। स्वामिदर्शनहष्टानां, क्ष्वेडानादो दिवौकसाम् । स्तनितं स्तनयित्नूनामिवैष श्रूयते दिवि ।।३९ ।। गन्धर्वाणामियं गीतिामरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्पत्यानन्दमद्य नः ।।४०।। शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः, पङ्कवन्नीलिका दृशोः ।।४१।। साऽपश्यत् तीर्थकृल्लक्ष्मी, सूनोरतिशयान्विताम् । तस्यास्तदर्शनानन्दात्, तन्मयत्वमजायत ।।४२।। साऽऽरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत्, केवलज्ञानमासदत् ।।४३।। करिस्कन्धाधिरूढव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् ।।४४ ।। [श्री त्रिषष्टि० पर्व-१ श्लोक-४८८ तः ५३१] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy