SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः १९७ मासान् संलेखनामष्टौ, कृत्वाऽनालोच्य संस्थिता । नवपल्योपमायुष्का, सौधर्मे देव्यभूदियम् ।।६२ ।। च्युताऽभवच्च कृष्णेयं, प्राचीनाञ्च निदानतः । भर्तारो जज्ञिरेऽमुष्याः, पञ्चैते कोऽत्र विस्मयः ? ।।६३ ।। . [श्री पाण्डवचरित्रे श्लोक-३२४ तः ३८६] २४. स्नेहध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रोक्तः मरुदेवीमातृविस्तारः । इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तुं, मरुदेवां दिवामुखे ।।१।। तनूजविरहोद्भूतैरश्रान्तैरस्रवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् ।।२।। ज्येष्ठः पौत्रो नमत्येष, देवि ! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ।।३।। (युग्मम्) स्वामिनी मरुदेवाऽपि, भरतायाऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च ।।४।। मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो ! ।।५।। सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? ।।६।। सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, वेदानीं पथिकोचितम् ? ।।७।। क्व तद् वारवधूक्षिप्तचारुचामरवीजनम् ? । मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? ।।८।। क्क तद् देवसमानीतदिव्याहारोपजीवनम् ? । क्व भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? ।।९।। रत्नसिंहासनोत्सङ्गे, महद्धेः क्व तदासनम् ? । मत्सूनोः खड्गिन इव, क्व निरासनताऽधुना ? ।।१०।। आरक्षरात्मरक्षैश्च, रक्षिते व पुरे स्थितिः ? । सूनोः क्व वासः सिंहाहिदुःश्वापदपदे वने ? ।।११।। क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ।।१२।। अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ।।१३।। हिमत्तौ हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ।।१४।। उष्णत्वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽटिकम् ।।१५।। तदेवं सर्वकालेषु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ।।१६।। तत्तदुःखाकुलं वत्सं, पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ।।१७।। इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचनवसुधासध्रीच्या वसुधाधवः ।।१८।। स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ।।१९।। तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान्, स्थाने तत्याज नः प्रभुः ।।२०।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy