________________
खण्ड:-२ दृष्टान्तसमुच्चयः
तेऽपि तद्गन्धमाघ्राय, वात्सल्यादिदमूचिरे । यदीदं भोक्ष्यसे वत्स !, सद्यो मृत्युमवाप्स्यसि ।।१४ ।। विशुद्धे स्थण्डिले मङ्घ, तत् परिष्ठापय क्वचित् । इत्यादेशाद्गुरोः सोऽपि, जगाम नगराद्वहिः ।।१५।। बिन्दौ निपतिते तस्य, कथंचित् तत्र पात्रतः । सक्ताः स मुनिरद्राक्षीन्मियमाणाः पिपीलिकाः ।।१६।। दध्यौ च बद्धसंवेगो, बिन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता, तत्सर्वं किं करिष्यति ? ।।१७ ।। वरमेकस्य मे मृत्युः, कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाञ्चस्तदसौ बुभुजे स्वयम् ।।१८।। सिद्धप्रत्यक्षमालोच्य, समाधिमधुरं मनः । दधत् सर्वार्थसिद्धेऽगान्मुनिः प्राणान् विहाय सः ।।१९।। बहिर्धर्मरुचेः कस्माद्विलम्ब ? इति वेदितुम् । गुरुः श्रीधर्मघोषोऽथ, निदिदेश परान् मुनीन् ।।२०।। तं परासुं बहिर्वीक्ष्य, तद्रजोहरणादिकम् । आदाय गुरुपादानां, तेऽपि सर्वं न्यवेदयन् ।।२१।। विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् । सर्व मुनीनां नागश्रीवृत्तान्तं तेऽप्यचीकथन् ।।२२।। ज्ञात्वा कथंचिल्लोकानां, वाक्परम्परया जनाः । सोमदेवादिविप्राणां, तस्या दुश्चेष्टितं जगुः ।।२३।। काममाक्रुश्य विप्रास्ते, तां गृहानिरवासयन् । लोकैर्धिक्रियमाणा च, साऽपि बभ्राम सर्वतः ।।२४ ।। कास-श्वास-ज्वरोत्कम्पकुष्ठाद्यैः क्रान्तविग्रहा । रोगैः षोडशभिलेभे, साऽत्रैव नरकव्यथाम् ।।२५ ।। क्षुत्पिपासार्दिता लोकैर्निन्द्यमाना पदे पदे । दुःखं भ्रमन्ती सा मृत्वा, षष्ठं नरकमासदत् ।।२६ ।। तस्मादुत्पद्य मीनेषु, सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य, तस्मिन्नेव जगाम सा ।।२७।। द्विद्धिरेवं सिषेवेऽसौ, नरकान् सकलानपि । पृथ्वीकायादिषूत्पेदे, तदुद्धत्ता च भूरिशः ।।२८ ।। चम्पायामथ सा कर्मलाघवात् सुकुमारिका । सुता सागरदत्तस्य, सुभद्राकुक्षिभूरभूत् ।।२९।। जिनदत्तात्मजस्तत्र, भद्राजश्चास्ति सागरः । वेश्मस्थां तत्पिताऽन्येधुर्ददर्श सुकुमारिकाम् ।।३० ।। तनयस्य मदीयस्य, योग्येयमिति चिन्तयन् । सह बन्धुभिरभ्येत्य, पितरं तामयाचत ।।३१।। सोऽप्यूचेऽतिप्रिया मेऽसौ, न भवाम्यनया विना । ममास्तु गृहजामाता, सागरस्तत् तवात्मजः ।।३२।। सुतमालोचयामीति, जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्यञ्च, मौनमालम्ब्य स स्थितः ।।३३।। अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय, गृहजामातरं सुतम् ।।३४।। आश्चर्यकृत्तयोर्जज्ञे, पाणिग्रहमहोत्सवः । नक्तं शिश्रियतुस्तौ च, पल्यत वासवेश्मनि ।।३५ ।। पूर्वकर्मवशात्तस्याः, स्पर्शमङ्गारसोदरम् । आसाद्य सागरस्तस्थौ, क्षणं तत्र कथंचन ।।३६।। तस्यां सुखप्रसुप्तायां, स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्तमपश्यन्ती च सा भृशम् ।।३७ ।। अथादिष्टा तयोर्दन्तशौचहेतोः सुभद्रया । प्रातरैक्षिष्ट तां चेटी, रुदन्तीं वल्लभोज्झिताम् ।।३८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org