SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १९४ आतुरप्रत्याख्यानप्रकीर्णकम् निर्वास्य कर्मचंडालचंडाल इव पत्तनात् । वध्योऽप्यमोचि राज्ञा स मान्यं ही गुरुशासनम् ।।७४ ।। सपत्नीभिश्चतुःषष्टिसहस्रः परिवारिता । वंदितुं तौ सुनंदागात् स्त्रीरत्नमथ चक्रिणः ।।७५।। सा संभूतमुनेः पादपद्मयोर्खलितालका । पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ।।७६।। तस्याश्चालकसंस्पर्श संभूतमुनिरन्वभूत् । रोमांचितश्च सद्योऽभूच्छलान्वेषी हि मन्मथः ।।७।। अथ सान्तःपुरे राज्ञि तावनुज्ञाप्य जग्मुषि । रागाभिभूतः संभूतो निदानमिति निर्ममे ।।७८ ।। दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । ततः स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि ।।७९।। चित्रोऽप्यूचे कांक्षसीदं मोक्षदात्तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोषि कम् ।।८० ।। मोहात्कृतं तन्निदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कृतमस्यास्तु मुह्यंति न भवादृशाः ।।८१।। एवं निवार्यमाणोऽपि संभूतश्चित्रसाधुना । निदानं नामुचदहो विषयेच्छा बलीयसी ।।८२।। नियूँढानशनौ तौ तु प्राप्तायुः कर्मसंक्षयौ । सौधर्म समजायेतां विमाने सुन्दरे सुरौ ।।८३।। [श्री त्रिषष्टिशलाका० पर्व-६ श्लोक-१ तः १०२] २३. निदानध्याने श्रीपाण्डवचरित्रोक्तं द्रौपदीकथानकम् ।। अथावसरमासाद्य, देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पाञ्चाल्या ?, इत्यपृच्छज्जनार्दनः ।।१।। सोऽब्रवीदेतया पूर्वजन्मोपात्तनिदानया । वृताः पञ्च धवास्तद्भोः!, कृतं मीमांसयाऽनया ।।२।। पुरा हि पुरि चम्पायां, भूमिदेवास्त्रयोऽभवन् । सोमदेव-सोमभूति-सोमदत्ताः सहोदराः ।।३।। तेषामासन् क्रमात्तिस्रः, प्रेमजन्मभुवः प्रियाः । नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ।।४।। मिथः स्निग्धतया तेषामियमासीव्यवस्थितिः । यत् पर्यायेण भोक्तव्यं, सर्वैरेकस्य वेश्मनि ।।५।। अथ क्रमात् समायाते, भुक्तिवारकवासरे । नागश्रीराश्रितानेकरसां रसवर्ती व्यधात् ।।६।। कटुतुम्बीफलं तस्यामनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत्, पाकान्ते च कथंचन ।।७।। नानावस्तुव्ययोद्भूतं, कार्पण्येन न साऽत्यजत् । केवलं क्वचिदेकान्ते, निधाय तदधारयत् ।।८।। तदन्यैर्विविधैभोज्यैः, स्वादुभिः पतिदेवरान् । भोजयामास सा प्रीता, क्षणात् तेऽपि बहिर्ययुः ।।९।। तदा सुभूमिभागाख्ये, पुरोद्याने महामनाः । धर्मघोषाभिध; सूरिख़नवान् समवासरत् ।।१०।। तस्य धर्मरुचिः शिष्यो, मासक्षपणपारणे । किरात्या इव कल्पद्रुहं नागश्रियो ययौ ।।११।। वृथा मा भूदिदं तावद्भवेदेषोऽपि तोषितः। इत्यालोच्य तया तस्मै, तत्तुम्बीव्यञ्जनं ददे ।।१२।। अपूर्वमिति संचिन्त्य, तद्ग्रहानुग्रहेच्छया । असौ वसतिमागत्य, गुरूणां तददर्शयत् ।।१३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy