SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः १९३ स ताडयितुमारेभे तेन. पूर्वोपकार्यपि। क्षीरपाणमिवाहीनामुपकारोऽसतां यतः ।।४९ ।। लकुटैः कुट्यमानः स सस्यबीजमिवोत्कटैः । स्थानात्ततोऽपचक्राम त्वरितत्वरितं मुनिः ।।५।। अमुच्यमानः कुट्टाकैर्निर्यन्नपि मुनिस्तदा । शांतोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः ।।५१।। निर्जगाम मुखात्तस्य बाष्पोत्पीडं समंततः । अकालोपस्थितांभोदविभ्रमं बिभ्रदंबरे ।।५२।। तेजोलेश्योल्ललासाथ ज्वालापटलमालिनी । तडिन्मंडलसंकीर्णामिव द्यामभितन्वती ।।५३।। अतिप्रकुपितं तं च तेजोलेश्याधरं ततः । प्रसादयितुमाजग्मुः पौराः सभयकौतुकाः ।।५४।। राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययौ । उत्तिष्ठति यतो वह्निस्तत्र विध्यापयेत्सुधीः ।।५५।। नत्वोचे तं नृपः किं वो युज्यते भगवन्निदम् । चन्द्राश्माकॊशुतप्तोऽपि नाचिमुँचति जातुचित् ।।५६ ।। एभिरत्यपराद्धं यत्कोपोऽयं भवता मतः । क्षीराब्धेर्मथ्यमानस्य कालकूटमभून्न किम् ।।५७।। न स्यात्स्याच्चेच्चिरं न स्याच्चिरं चेत्तत्फलेऽन्यथा । खलस्नेह इव क्रोधः सतां तब्रूमहेऽत्र किम् ।।५८ ।। तथापि नाथ नाथामि कोपं मुंचेतरोचितम् । भवादृशाः समदृशो ह्यपकार्युपकारिषु ।।५९।। चित्रोऽप्यत्रान्तरे ज्ञात्वा संभूतमुनिमभ्यगात् । सांत्वयितुं भद्रमिव द्विपं मधुरभाषितैः ।।६०।। तस्य कोप उपशाम्यच्चित्रवाक्यैः श्रुतानुगैः । पयोवाहपयःपूरैगिरेरिव दवानलः ।।६१।। तीव्रकोपतमोमुक्तः शशांक इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः ।।६२ ।। वंदित्वा क्षमयित्वा च लोकस्तस्मान्यवर्तत । संभूतश्चित्रमुनिना तदुधानमनीयत ।।६३।। पश्चात्तापं चक्रतुस्तौ पर्यटद्भिर्गृहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् ।।६४।। शरीरं गत्वरमिदं ह्याहारेणापि पोषितम् । किमनेन शरीरेण किं वाहारेण योगिनाम् ।।६५ ।। चेतसेति विनिश्चित्य कृतसंलेखनौ पुरा । उभौ चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ।।६६।। कः पराभूतवान् साधुं वसुधां पाति मय्यपि । इति जिज्ञासतो राज्ञो मंत्री व्यज्ञपि केनचित् ।।६७ ।। अर्ध्यान्नार्चति यः सोऽपि पापः किमुत हंति यः । इत्यानाययदुर्वीशो दस्युवत्संयमय्य तम् ।।६८ ।। अन्योऽपि साधुविध्वंसं मा विधादिति शुद्धधीः । तं बद्धं पुरमध्येन सोऽनैषीत्साधुसंनिधौ ।।६९।। नमन्नुपशिरोरत्नभानिरंभोमयीमिव । कुर्वनुर्वी स उर्वीशपुंगवस्ताववन्दत ।।७०।। सव्यपाणिगृहीतास्यवस्त्रिकापिहिताननौ । उद्दक्षिणकरौ तौ तमाशशंसतुराशिषा ।।७१।। यो वोऽपराद्धवान् सोऽस्तु स्वकर्मफलभाजनम् । राज्ञा सनत्कुमारणेत्यदर्शि नमुचिस्तयोः ।।७२।। अमोचि नमुचिः प्राप्तः पंचत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ।।७३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy