SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९२ आतुरप्रत्याख्यानप्रकीर्णकम् क्रोष्टुवत् क्रोष्टुशब्देन पोरगीतेन तौ ततः । अगायतां तारतारमलंघ्या भवितव्यता ।।२४।। आकर्ण्य कर्णमधुरं तद्गीतं युवनागरैः । मधुवन्मक्षिकाभिस्तौ मातंगौ परिवारितौ ।।२५।। कावेताविति विज्ञातुं लोकैः कृष्टावगुंठनौ । अरे तावेव मातंगावित्याक्षेपेण भाषितौ ।।२६ ।। नागरैः कुट्यमानौ तौ यष्टिभिर्लोष्टुभिस्ततः । श्वानाविव गृहात्पुर्या नतग्रीवौ निरीयतुः ।।७।। तौ सैन्यशशवलोकैर्हन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गभीरोद्यानमीयतुः ।।२८।। तावचिन्तयतामेवं धिङ्नौ दुर्जातिदूषितम् । कलाकौशलरूपादि पयो घ्रातमिवाहिना ।।२९।। उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेर्वेताल उत्थितः ।।३०।। कलालावण्यरूपाणि स्यूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्त्यज्यतां क्वचित् ।।३१।। इति निश्चित्य तौ प्राणपरिहाणपरायणौ । मृत्युं साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि ।।३२।। ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्रारूढैर्भुवीक्ष्यंते करिणः किरिपोतवत् ।।३३।। भृगुपातेच्छया ताभ्यामारोहद्भयां महामुनिः । ददृशे पर्वते तस्मिजंगमो गुणपर्वतः ।।३४ ।। प्रावृषेण्यमिवांभोदं मुनिं गिरिशिरः स्थितम् । दृष्ट्वा प्रणष्टसंतापप्रसरौ तौ बभूवतुः ।।३५ ।। तौ प्राग्दुःखमिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयो गाविव सद्यो निपेततुः ।।३६।। समाप्य मुनिना ध्यानं कौ युवां किमिहागतौ । इति पृष्टौ स्ववृत्तांतं तावशेषमशंसताम् ।।३७ ।। स ऊचे भृगुपातेन वपुरेव हि शीर्यते । शीर्यते नाशुभं कर्म जन्मान्तरशतार्जितम् ।।३८ ।। त्याज्यं वपुरिदं वां चेद्गृह्णीतं वपुषः फलम् । तच्चापवर्गस्वर्गादिकारणं परमं तपः ।।३९ ।। इत्यादिदेशनावाक्यसुधानिधौतमानसौ । तस्य पार्श्वे जगृहतुर्यतिधर्ममुभावपि ।।४० ।। अधीयानौ क्रमेणाथ तौ गीतार्थी बभूवतुः । आदेरण गृहीतं हि किं वा न स्यान्मनस्विनाम् ।।४१।। षष्टाष्टमप्रभृतिभिस्तौ तपोभिः सुदुस्तपैः । क्रशयामासतुर्द प्राक्तनैः कर्मभिः सह ।।४२।। ततो विहरमाणौ तौ ग्रामाद्ग्रामं पुरात् पुरम् । कदाचित्प्रतिपेदाते नगरं हस्तिनापुरम् ।।४३।। तौ तत्र बहिरुद्याने चेरतुर्दुश्चरं तपः । संभोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ।।४४ ।। संभूतमुनिरन्येधुर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थं यतिधर्मोऽङ्गवानिव ।।४५।। गेहाद्नेहं परिभ्राम्यन्नीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमंत्रिणा ।।४६।। मातंगदारकः सोऽयं मद्वृत्तं ख्यापयिष्यति । मंत्रीति चिन्तयामास पापाः सर्वत्र शंकिताः ।।४७ ।। यावन्मन्मर्म कस्यापि प्रकाशयति न ह्यसौ । तावन्निर्वासयाम्येनमिति पत्तीन्न्ययुंक्त सः ।।४८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy