________________
खण्डः-२ दृष्टान्तसमुच्चयः
२३, ६३. निदानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्राऽन्तर्गता चित्रसंभूतिमुनेः कथा | वाराणस्यां ततोऽभूतां भूतदत्ताभिधस्य तौ । महाधनसमृद्धस्य मातंगाधिपतेः सुतौ ।।१।। चित्रसंभूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां संबद्धौ नखमांसवत् ।।२।। वाराणस्यां तदा चाभूच्छंख इत्यवनीपतिः । आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः । | ३ || अपरेद्युः सोऽपराधे महीयसि महीभुजा । अर्पितो भूतदत्तस्य प्रच्छन्नं वधहेतवे ।।४।। तेनोचे नमुचिश्छन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः ।।५।। प्रतिपन्नं नमुचिना तन्मातंगपतेर्वचः । जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् ।।६।। विचित्राश्चित्रसंभूतौ स तथाध्यापयत् कलाः । रेमेऽनुरक्तया सार्धं मातंगपतिभार्यया ।।७।। ज्ञात्वा तद्भूतदत्तेनारेभे मारयितुं तु सः । सहेत कः स्वदारेषु पारदारिकविप्लवम् ।।८।। ज्ञात्वा मांतगपुत्राभ्यां स दूरेणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ।। ९ ।। ततो निःसृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ।। १० ।। इतश्च चित्रसंभूतौ भतुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव ।। ११ । । तौ स्वादु जगतुर्गीतं हाहाहूहूपहासिनौ । वादयामासतुर्वीणामतितुंबुरुनारदौ ।।१२।। गीतप्रबंधानुगतैः सुव्यक्तैः सप्तभिः स्वरैः । तयोर्वादयतोर्वीणां किंकरंति स्म किन्नराः ।। १३ ।। मुरजं धीरघोषं तौ वादयन्तौ च चक्रतुः । गृहीतमुरकंकालातोद्यकृष्णविडंबनाम् ।।१४।। शिवः शिवोर्वशीरंभायुंजकेशीतिलोत्तमाः । यन्नाट्यं न विदांचक्रुस्तौ तदप्यभिनिन्यतुः ।।१५।। सर्वगान्धर्वसर्वस्वमपूर्वं विश्वकार्मणम् । प्रकाशयद्भ्यां च ताभ्यां न जह्रे कस्य मानसम् ।।१६।। तस्यां पुरि प्रवतृते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चर्यस्तत्र संगीतपेशलाः ।। १७ ।। चर्चरी निर्ययौ तत्र चित्रसंभूतयोरपि । जग्मुस्तत्रैव तद्गीताकृष्टाः पौरा मृगा इव ।। १८ ।। राज्ञो व्यज्ञपि केनापि मातंगाभ्यां पुरीजनः । गीतेनाकृष्य सर्वोऽयमात्मवन्मलिनः कृतः ।।१९।। क्ष्मापेनापि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः क्वचित् ।।२०।। ततः प्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तश्चैकदा तत्र कौमुदीपरमोत्सवः ।। २१ । । राजशासनमुल्लंघ्य लोलेन्द्रियतया च तौ । प्रविष्टौ नगरीं भृंगौ गजगंडतटीमिव ।। २२ ।। उत्सवं प्रेक्षमाणौ तौ सर्वांगीणावगुंठनौ । दस्युवन्नगरीमध्ये छन्नं छन्नं विचेरतुः ।। २३ ।।
Jain Education International 2010_02
१९१
For Private & Personal Use Only
www.jainelibrary.org