________________
आतुरप्रत्याख्यानप्रकीर्णकम
चिन्तितमनेन स्वपापतरुफलमिदं, तत् किं दारसङ्ग्रहेण ? करोमि तदुन्मूलने यत्नमिति सञ्चिन्त्याटता तेन दृष्टः कश्चिदाचार्यः, धर्मं श्रुत्वा प्रव्रजितस्तत्सकाशे । अभ्यस्तक्रियाकलापो गृहीतागमश्च पञ्चशतिकगच्छस्य गृहीताभिग्रहो वैयावृत्त्यं कर्तुमारब्धः । कुर्वतश्च सोत्साहं कृतकृत्यमात्मानं भावयतो गतो बहुः कालः ।
अन्यदा स्वःसभायां धन्यः कृतार्थो नन्दिषेणो यो देवैरपि न धर्माच्च्याव्यत इति श्लाघितः शक्रेण । तदश्रद्धानोऽवतीर्णः कश्चिद्देवः स्थित्वा साधूपाश्रयद्वारे स प्राह-अटव्यां ग्लानतपस्वी तिष्ठतीति । तदाकर्ण्य षष्ठपारणके गृहीतप्रथमकवलस्तं परित्यज्य सहसा निर्गतो नन्दिषेण: परिपृच्छ्य तं प्रदेशमवस्थां च प्रविष्टः पानकौषधाद्यर्थं गोचरे । देवविहितानेषणामदीनमनस्को लाभान्तरायक्षयोपशमस्योत्कटतया निर्जित्य गृहीत्वैषणीयं पानकादिकं गतस्तं प्रदेशम् । दर्शितो देवेनाशुचिबीभत्सो धिग्दुर्मुण्ड ! स्वोदरभरणक्षणिक ! इत्यादिकर्कशवचनैर्विरारट्यमानो ग्लानसाधुः ।
ततो बत मयाऽधन्येनाऽस्य महामुनेर्मनः खेदः सम्पादित;, कथं चायं प्रगुणो भविष्यतीति चिन्तयता तेन क्षालितस्तद्देहः । धीरो भव, करोमि निरुजं भवन्तम्, आगच्छोपाश्रयमिति समाश्वासितो मधुरवचनैर्नन्दिषेणेन स प्राह - 'आः पाप ! न जानीषे मेऽवस्थां, न शक्नोम्यहं पदमपि गन्तुम् । ततः समारोप्य स्वपृष्ठदेशे तमितरो गन्तुमारब्धः । देवोऽपि मुञ्चति दुर्गन्ध्यशुच्यादीनि, 'धिग् दुरात्मन् ! वेगविघातं करोषि !' इत्यादिभिः शपते च कटुकवाक्यैः । इतरोऽपि प्रवर्धमानतीव्रतरशुभपरिणामः कथमयं महात्मा स्वस्थः स्यादिति चिन्तयन् मिथ्यादुष्कृतमिदानीं शोभनं नयामीति वदन् गच्छति स्म । ततो देवस्तच्चरितावर्जितमानसः स्थाने शक्रस्य पक्षपात इति सञ्चिन्त्य मायां संहृत्य प्रकटितदिव्यरूपः पतितः पादयोर्निवेद्य वृत्तान्तमाह च-किं मया कर्तव्यं ? मुनिराह-यथाशक्ति धर्मोद्यम इति । गतोऽसौ स्वस्थानम् । मुनिश्च पृच्छतां साधूनां कथितवान् यथावृत्तम् ।
पश्चादवसानकाले स्मृतगृहस्थावस्थादौर्भाग्येण मनुष्यभवेऽहं सुभगो भूयासमिति कृतमिति तेन निदानम् । गतो दिवम्, ततश्चयुत्वा जातो दशमदशारो वसुदेवनामा । प्राप्तयौवनेन च तेन भ्रमता कृता हृतहृदयाः सुरसुन्दर्यः स्वगृहकर्मापि त्यक्तवत्यः । ततो नागरिकविज्ञप्तसमुद्रविजयोपरोधान्निर्गतेन देशकालिकया पर्यटता वसुधाम् । रूपातिशयाक्षिप्तमनोभिः सर्वलोकैरपरापरस्थानेषु नीयमानेन परिणीता बहुसहस्रसङ्ख्या विद्याधरनरपतिवरकन्यकाः, प्राप्तो वैषयिकसुखातिरेकः । पश्चाम्मिलितेन च बन्धुभिः समुत्पन्नेऽर्धचक्रवर्तिनी कृष्णे सुतोत्तमे, जातेषु प्रद्युम्नादिषु तद्वरतनयेषु लब्धं हरिवंशपितामहत्त्वमिति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org