________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१८५
उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेन साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो गुर्वादिभिख़तोऽस्य स्त्यानद्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराञ्चिकं दत्त्वाऽयमपि विसर्जितः ।।२।।
दन्तोदाहरणं तृतीयमुच्यते, यथा-एकः साधुर्दिवा द्विरदेन खेदितः कथमपि पलाय्योपाश्रयमागतः। तं च दन्तिनं प्रत्यविच्छिन्नकोप एव निशि प्रसुप्तः । स्त्यानाद्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धबलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भक्त्वा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वप्नोऽयम्' इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यानद्धिनिद्रोदयः । तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः ।।३।।
फरुसगशब्देन समयप्रसिद्ध्या कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते-एकः कुम्भकारो महति गच्छे प्रव्रजितः । अन्यदा च सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः । ततोऽसौ पूर्वं यथा मृत्तिकापिण्डानत्रोटयत्, तथा तदभ्यासादेव साधूनां शिरांसि त्रोटयित्वा कबन्धैः सहैवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोऽपसृताः । प्रभाते च ज्ञातं सम्यगेव सर्वं तच्चेष्टितम् । संघेन तथैव विसर्जितः ।।४।।। ___ अथ वटशाखाभञ्जनोदाहरणं पञ्चममुच्यते, यथा- कोऽपि साधुामान्तराद् गोचरचर्यां विधाय प्रतिनिवृत्तः । स चौष्ण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वतिन्या तच्छाखया मस्तके घट्टितः, गाढं च परितापितः, अव्यवच्छिन्नकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्रौ गत्वा वटशाखां भक्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः । 'स्वप्नो दृष्टः' इत्यालोचिते, स्त्यानर्युदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति ।।५।। २३. निदानध्याने श्रीउपदेशमालाहेयोपादेयायां नन्दिषेणकथा ।
नन्दिग्रामे चक्रचरधिग्वर्णदारकस्य नन्दिषेणनाम्नो अव्यक्तस्यैव मृतौ माता-पितरौ, स्थितो मातुलसमीपे । किमत्र कर्म मुधिकया करोषि ? किं वा न दारसङ्ग्रहं द्रव्योपार्जनद्वारेणेति विप्रतारितोऽसौ लोकैः । ततो निर्गन्तुकामः स्वसुतां ते दास्यामीति वदता विधृतो मातुलेन । यौवनस्था चोपस्थापिता सा तस्य तेन, तया च तं निरीक्ष्य तद्दौर्भाग्य-वैरूप्याभ्यां जातवैमुख्यया पितरं प्रत्युक्तं यदि मामस्मै दास्यसि ततोऽहं मरिष्ये । ततो द्वितीयां दास्यामि, इयं तु नेच्छतीति सम्भाव्य धृतो निर्गच्छन्नसौ तेन । एवं सप्तभिस्तत्सुताभिर्मरणाभ्युपगमेनानिष्टस्य जातमस्य वैराग्यं,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org