________________
१८४
आतुरप्रत्याख्यानप्रकीर्णकम्
विचित्रवस्त्रनेपथ्यरमणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् ।।८०।। असौ प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयान्निर्गतोऽथ मे ।।८१।। इति सोऽचिंतयद्यावत्तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदोऽशृणोत् ।।८२ ।। कुरुवंशसरोहंसाश्वसेनाब्धिनिशाकर । सनत्कुमार सौभाग्यमनोभव चिरं जय ।।८३।। जय विद्याधरवधूदोलतालिंगनद्रुम । आढ्यंभविष्णो वैताढ्यश्रेणिद्वयजयश्रिया ।।८४ ।। एवं समाकर्ण्य सनत्कुमारस्य स द्दक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः ।।८५।।
[श्री त्रिषष्टिशलाका० पर्व-६ श्लो-७४ तः १५८] २२. निद्राध्याने श्रीविशेषावश्यकभाष्ये पञ्चदृष्टान्ताः । पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा ।।२३५ ।।
स्त्यानद्धिनिद्रोदयवर्तिन एतानि पौद्गलादीन्युदारणानि ज्ञातव्यानि भवन्ति । तद्यथा-'पोग्गलेत्यादि' तत्र समयपरिभाषया पौद्गलं मांसमुच्यते, तदाहरणं यथा-एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत्, स च मांसगृद्ध आमानि, पक्वानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित् प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च ग्रामाऽनुग्रामं विहरता कदाचित् क्वचित् प्रदेशे मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाञ्चक्रे । तं च संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाषः समजायत । स चाऽभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषीं, प्रतिक्रमणक्रियां, प्रादोषिकपौरुषीं च कुर्वतो न निवृत्तः; किं बहुना ?, तदभिलाषवत्येव प्रसुप्तोऽसौ । ततः स्त्यानद्धिनिद्रोदयो जातः । तदुदये चोत्थाय ग्रामाद् बहिर्महिषमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान्। तदुद्वरितशेषं च समानीयोपाश्रयोपरि क्षिप्त्वा प्रसुप्तः । समुत्थितश्च प्रत्युषसि स 'मयेत्थंभूतः स्वप्नो दृष्टः' इत्येवं गुर्वन्तिक आलोचयामास । साधुभिश्चोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानद्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ ।। इति स्त्यानद्धिनिद्रोदये प्रथममुदाहरणमिति ।।१।।
अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा-एकः कोऽपि साधुभिक्षां पर्यटन क्वचिद् गृहे पटलकादिव्यवस्थापितानातिप्रचुरान सुरभिस्निग्धमधुरमनोज्ञान् मादकानद्राक्षीत् । तेन चोर्ध्वस्थितेन ते सुचिरमुद्वीक्षिताः । न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप । स्त्यानद्धिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org