________________
खण्डः - २ दृष्टान्तसमुच्चयः
क्वाथान् रोगीव सरितां पंकिलान्यूष्मलानि च ।
पिबन् पयांसि स ग्रीष्मं भ्राम्यन्नेकोऽत्यवाहयत् ।। ५९ ।। ।। चतुर्भिः कलापकम् ।। रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि ।। ६० ।। अखंडप्रसरैर्धारासारैः शितशरैवि । विध्यमानोऽपि संनद्ध इवामुह्यन् मनागपि । । ६१ ।। पदे पदे वननदीर्वेगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् ।।६२।। आक्रामन् पंकिलं मार्गं वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् ।।६३।। ।। चतुर्भिः कलापकम् ।। मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटांतर्वसन्निव ।। ६४ ।। स्वच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रांतमनाः क्वासि क्वासि मित्रैवमुपृ॒णन् ।।६५।। मदगंधिसप्तपर्णकुद्धधावितदंतिनाम् । मध्येन गच्छन् दंतीव वनांतरसमागतः ।।६६।। सख्येव पवमानेन प्रेर्यमाणेऽब्जगंधिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् ।।६७।। ।। चतुर्भिः कलापकम् ।। उत्तरेण समीरेण हिमाद्रेरिव बंधुना । हिमसात् क्रियमाणेषु सरसीसरिदंबुषु ।। ६८ ।। दवाग्निनाप्यदाह्यासु दह्यमानासु सर्वतः । जलांतः पद्मकल्हारकैरवोत्पलपंक्तिषु ।। ६९ ।। शीतार्त्तेषु किरातेषु दवानलमपीच्छुषु । हेमन्तमप्यतीयाय स बाढं दृढनिश्चयः ।।७०।। ।। त्रिभिर्विशेषकम् ।। शीर्णेषु जीर्णपर्णेषु जानुदघ्नेषु भूरुहाम् । छन्नाहिवृश्चिकेष्वंघ्रिन्यासं निःशंकमादधत् ।।७१।। कर्णमर्माविद्भिरिव मर्मरैरति दुःश्रवैः । प्रबुद्धोत्कर्णपंचास्यबूत्कारेष्वप्यकंपितः । । ७२ ।। प्रत्यग्रपल्लवास्वादमात्रेणैवोदरंभरिः । शिशिरं गमयामासाशिशिरो मित्रपीडया ।।७३।। ।। त्रिभिर्विशेषकम् । एवं सन्तकुमारस्यान्वेषणायाटतोऽटवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः ।।७४।। तस्यामटव्यामन्येद्युर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इवोन्मुखः । । ७५।। ततः कारंडवक्रौंचहंससारसपक्षिणाम् । क्षणादाकर्णयामास कोलाहलमनाकुलः ।।७६।। मरुता पंकजामोदवाहिनाश्वासितश्च सः । सरः किंचिदिहास्तीति निश्चिकायानुमानतः ।।७७।। आनंदबाष्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् ।।७८।। गच्छन्नग्रे च शुश्राव गीतं गांधारबंधुरम् । मधुरं वेणुनादं च वीणाक्काणं च हारिणम् ।। ७९ ।।
Jain Education International 2010_02
१८३
For Private & Personal Use Only
www.jainelibrary.org