________________
१८२
आतुरप्रत्याख्यानप्रकीर्णकम्
ममाल्पपरिवारस्य क्वचिदेकाकिनोऽपि वा । ईषत्करं चरस्येव कुमारान्वेषणं प्रभो ।।३६ ।। देवस्यामितसैन्यस्यासम्मातो यत्र कुत्रचित् । तन्नाह हस्वरध्यायां प्रवेश इव दंतिनः ।।३७ ।। भूयो भूयोऽप्येवमुक्त्वा पादलग्नेन तेन तु । निवर्तितोऽश्वसेनः स्वं दुःखितो नगरं ययौ ।।३८ ।। मितसारपरीवारो दुर्वार इव वारणः । महेंद्रसिंहः सहसा प्रविवेश महाटवीम् ।।३९।। पाषाणैः खङ्गिविषाणोत्क्षिप्तैर्विषमपद्धतिम् । घर्तिप्रविशत्क्रोडपंकिलीकृतपल्वलाम् ।।४०।। प्रौढभल्लूकहिक्काभिः प्रतिशब्दितगह्वराम् । गह्वरासीनशार्दूलकृतबूत्कारदारुणाम् ।।४१।। उत्फालचित्रककुलव्याकुलैणकुलाकुलाम् । गलितश्वापदैर्बाढवाहसैवेष्टितद्रुमाम् ।।४।। चमूरुचक्रैराक्रांतमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् ।।४३।। मत्तकुंजरभग्नाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत ।।४४।।
।। पंचभिः कुलकम् ।। विकटां कंटकितरुश्वापदैरवटैः स्थलैः । महाटवीं तामटतस्तस्त सैन्यं व्यशीर्यत ।।४५ ।। खिन्नखिन्नैर्मुच्यमानो मंत्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत् ।।४६।। भूयो महानिकुंजेषु गिरीणां कंदरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः ।।४७।। बृंहिते वननागानां सिंहगुंजारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशंकया ।।४८।। स्वमित्रं तत्र चापश्यन्नुच्छलनिर्झरध्वनौ । तदाशंक्यन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी ।।४९।। नदीकरिहरीनूचे मद्वंधोर्ध्वनिरेष यत् । स वः पार्श्वे ततो लभ्यं सर्वं ह्येकांशदर्शनात् ।।५० ।। सर्वत्राप्रेक्ष्य सुहृदमुञ्चैरारुह्य शाखिनः । दिशो न्यरूपयद्भूयो मार्गभ्रांत इवाध्वगः ।।५१।। बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः सहकारद्रुष्वमल्लो मल्लिकास्वपि ।।५२।। न्यक्कारी कर्णिकारेषु पाटलः पाटलास्वपि । दूरस्थः सिंदुवारेषु सोत्कंपश्चंपकेष्वपि ।।५३।। पराङ्मुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पंचमोञ्चारितेष्वपि ।।५४ ।। अशांततापः पीयूषरश्मेरपि हि रश्मिषु । स वसंतमतीयाय रोरपुत्र इवैककः ।।५५ ।।
।। चतुर्भिः कलापकम् ।। कुकूलैरिव विस्तीर्णैः पादपद्मनखंपचैः । भृज्यमानोऽर्काशुतप्तैर्भूरजोभिः पदे पदे ।।१६।। सद्यो निर्वाणदावाग्निभस्मदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तंभमिव सूत्रयन् ।।५७ ।। उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा ।।५८ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org