________________
१८९
खण्डः - २ दृष्टान्तसमुच्चयः
स सार्धैकचत्वारिंशद्धनुरुन्नतविग्रहः । मर्त्यलोकादिव दिवं शैशवात् प्राप यौवनम् ।।११।। तस्याभूत् परमं मित्रं कालिंदीसूरनंदनः । महेन्द्रसूर इत्याख्याख्यातः प्रख्यातविक्रमः ।।१२।। प्राप्ते वसंते सोऽन्येद्युः कालिंदीसूनुना समम् । मकरंदाख्यमुद्यानं कौतुकात् क्रीडितुं ययौ ।। १३ ।। क्रीडाभिस्तत्र चित्राभिश्चिक्रीड सुहृदा समम् । सनत्कुमारो गीर्वाणकुमार इव नंदने ।। १४ ।। तदा च राज्ञोऽश्वपतेः प्राहिणोत् प्राभृतान् हयान् । धारापंचकचतुरान् सर्वलक्षणलक्षितान् ।।१५।। नाम्ना जलधिकल्लोलं कल्लोलमिव चंचलम् । एकं सनत्कुमारस्याप्यर्पयामास वाजिनम् ।।१६।। त्यक्त्वा क्रीडां कुमारस्तमारुरोह तुरंगमम् । हस्त्यश्वे राजपुत्राणां कौतुकं सर्वतोऽधिकम् ।।१७।। कशामुत्क्षिप्य चैकेन वल्गां चैकेन पाणिना । आसनास्पृष्टपर्याण उरूभ्यां प्रेरयच्च तम् ।।१८।। पर्यधाविष्ट वेगेन पादैः क्ष्मामस्पृशन्निव । गच्छन् बहुतरं व्योम्नि सोऽश्वान् द्रुष्टुं वेरिव ।।१९।। वल्गया चकृषे सोऽश्वः कुमारेण यथा यथा । तथा तथा विपरीतशिक्षोऽधिकमधावत ।। २० ।। सादिनां राजपुत्राणां धावतामपि मध्यतः । निर्ययौ स क्षणादश्वोऽश्वमूर्तिरिव राक्षसः ।।२१।। पश्यतामपि भूपानामुडूनामिव चन्द्रमाः । स आरूढकुमारोऽश्वोऽभूददृश्यः क्षणादपि ।। २२ ।। अश्वेन सूनुमाकृष्टं नदीपूरेण पोतवत् । प्रत्यानेतुमन्वचालीदश्वसेनोऽश्वसेनया ।। २३ ।। यात्यसौ यात्यसावश्वः पदान्येतानि तस्य हि । फेनलालास्तस्य चेमा यावदाख्यदिदं जनः ।। २४ ।। तावद्वात्योदभूच्चंडा पूर्णब्रह्मांडभस्त्रिका । अकालिका कालरात्रिरिवांधंकरणी शाम् ।।२५।। युग्मम् ।। अपटीभिरिवौकांसि दिशोऽच्छाद्यंत रेणुभिः । स्तंभितानीव सैन्यानि नोद्धर्तुं पादमप्यलम् ।।२६।। पदफेनानि चिह्नानि गच्छतस्तस्य वाजिनः । अशेषाण्यपि भग्नानि पांसुकल्लोमालया ।।२७।। न निम्नं नोन्नतं नापि स्थपुटं न द्रुमाद्यपि । अलक्षि पाताल इव प्रविष्टोऽभूज्जानोऽखिलः ।। २८ ।। मूढोपायाः सैनिकास्ते पर्याकुल्यभवन्नथ । अब्धावंभः पूर्यमाणयानाः सांयात्रिका इव ।। २९ ।। नत्वा महेंद्रसिंहोऽश्वसेनमेवं व्यजिज्ञपत् । देव दैवस्य घटना दुर्घटान्यस्य खल्विम् ।। ३० ।। अन्यथा हि कुमारः क्व दूरदेशो हयः क्व च । तत्र चाज्ञातशीले क्व कुमारस्याधिरोहणम् ।।३१।। कुमारस्यापहरणं तेन दुर्वाजिना क्व च । क्व वा वात्येयमुद्दंडरजश्छादितद्दक्पथा ।। ३२ ।। पर्यन्तसामंतमिव दैवं जित्वा तथापि हि । आनेष्याम्यहमन्विष्य स्वमित्रं स्वामिसन्निभम् ।।३३।। कंदरेषु गिरींद्राणं तुंगेषु शिखरेषु च । निरंतरतरुस्तोमदुर्गमास्वटयीषु च ।। ३४ ।। रोधोरंध्रेषु पातालकल्पेषु सरितामपि । निर्जलेष्वपि देशेषु विषमेष्वपरेष्वपि ।। ३५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org