SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् I व्याजहाराथ रथिकः स्मित्वा वल्कलचीरिणम् । हंहो कर्मेदमेवैषां मृगाणां नात्र दुष्यति ।।७८ ।। रथिको मोदकान्स्वादून्ददौ वल्कलचीरिणे । सोऽखादच्च तदास्वादसुखमग्नो जगाद च ।। ७९ ।। ईदृशानि वनफलान्यहमग्रेऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः ।।८० ।। अभूच्च मोदकास्वादात्पोतनं गन्तुमुत्सुकः । कषायरूक्षैर्नटितः स बिल्वामलकादिभिः ।। ८१ ।। रथिनश्चाभवद्युद्धं चौरेणैकेन दोष्मता । रथी गाढप्रहारेण तं चौरं निजघान च ।।८२ ।। चौरोऽप्युवाच घातो हि वैरिणोऽपि प्रशस्यते । मामजैषीः प्रहारेण तेन तुष्टोऽस्मि मानव ! ।। ८३ ।। विपुलं धनमत्रास्ति मदीयं तद् गृहाण भोः ! । त्रयोऽप्यारोपयामासुरथ तद् द्रविणं रथे । ८४ ।। क्रमेण पोतनं प्राप्तो रथी वल्कलचीरिणम् । प्रोवाच प्रेप्सितो यस्ते पोतनाश्रम एष सः ।।८५ ।। किंचिच्च द्रविणं तस्मै रथी तापससूनवे । प्रददौ मार्गसुहृदे स्मयमानो जगाद च ।। ८६ ।। अमुष्मिन्नाश्रमपदे न विना द्रव्यमाश्रयः । तदाश्रमार्थी कस्मैचिद्दद्याद् द्रव्यमवक्रये ।। ८७ ।। किमत्र यामि याम्यत्र किं वेति सकले पुरे । उत्प्रेक्षमाणो हर्म्याणि बभ्राम मुनिपुङ्गवः ।।८८ ।। नराणामथ नारीणामृषिबुद्ध्या स मुग्धधीः । अभिवादनवातूल उपाहास्यत नागरैः ।। ८९ ।। पुरे भ्रमन्नथैकस्या वेश्यायाः स निकेतने । विवेश त्वरितं चापमुक्तः शर इवास्खलन् ।।९०।। [ श्री परिशिष्टपर्व श्लो. ९२ तः १८१ ] २१-४६. प्रस्थानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रे सनत्कुमारं गवेषयतो महेन्द्रसिंहस्य कथा । चिरं शक्रश्रियं भुक्त्वा कल्पात् पूर्णायुरादिमात् । स जीवो जिनधर्मस्य तस्याः कुक्षाववातरत् ।।१।। मुखे प्रविशतः स्वस्मिन् सहदेव्यपि तत्क्षणम् । कुंजरादीन् महास्वप्नांश्चतुर्दश ददर्श सा ।। २ ।। समयेऽसूत सा सूनुं सर्वलक्षणलक्षितम् । अद्वैतरूपविभवं जात्यजांबूनदद्युतिम् ।।३।। महीयसाथोत्सवेन जगदानंददायिना । सनत्कुमार इत्याख्यां चक्रे तस्य महीपतिः || ४ || कनकच्छेदगौरांगो बालो बाल इवोडुपः । प्रीणन्नेत्राणि लोकानां स क्रमेण व्यर्धत ||५|| अंकादंके नरेंद्राणां संचरन् स व्यराजत । अरविंदादरविंदे सितच्छद इवोच्चकैः ।। ६ ।। रूपेणाप्रतिरूपेण स बालोऽपि मृगीद्दशाम् । जहार दृष्टमात्रोऽपि नेत्राणि च मनांसि च ।।७।। सांगानि शब्दशास्त्राणि समस्तज्ञानमातृकाः । पपौ गुरुमुखोद्गीर्णान्येष गंडूषलीलया ।। ८ ।। राज्यश्रीभुवनस्तंभान् स्वदोःस्तंभानिवापरान् । स आददे शस्त्रशास्त्राण्यर्थशास्त्राणि चाभितः ।।९। १८० अन्या अपि कलाः सर्वाः कलयामास लीलया । क्रमेण वर्धमानः स कलानिधिरिवामलः ।।१०।। For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_02
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy