________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१७९
इति राजाऽऽज्ञया वेश्या मुनिवेषभृतो द्रुतम् । तदाश्रमपदं जग्मुः सोमचन्द्रेण सेवितम् ।।५३।। फलान्यादाय बिल्वादीन्यायान्तमृषिपुत्रकम् । वल्कलाच्छादनं तत्र ददृशुस्तं मृगीदृशः ।।५४ ।। मुनिवेषभृतां तासां सोऽकार्षीदभिवादनम् । ऋजुधीरित्यपृच्छच्च के यूयं ? को व आश्रमः ? ।।५५ ।। ताः प्रोचुर्वयमृषयः पोतनाश्रमवासिनः । तवागताः स्मोऽतिथयः किमातिथ्यं करिष्यसि ? ।।५६ ।। उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमश्नीत पक्वानि मधुराणि महर्षयः ! ।।५७।। ताश्चोचुराश्रमपदेऽस्मदीये नेदृशान्यहो । फलानि कश्चिदश्नाति नीरसान्यतिनीरसः ।।५८।। अस्मदाश्रमवृक्षाणामीक्षस्व फलवर्णिकाम् । इत्युक्त्वा ता निषेदुर्द्वमूले तं च न्यषादयन् ।।५९।। ताश्च तं प्राशयन् खण्डफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विल्वाद्युद्वेगभागभूत् ।।६० ।। एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्भे निजोरसि ।।६१ ।। स ऊचे कोमलमिदं किमङ्गं वो महर्षयः ? । किमुन्नते स्थले एते यौष्माकीणे च वक्षसि ? ।।६२ ।। ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपल्लवैः । अस्मद्वनफलास्वादे हीदृक् स्यादङ्गमार्दवम् ।।६३।। आस्वादितैर्वनफलैरस्मदीयैर्महारसैः । अत्यन्तोपचयादेते जायेते हृदि च स्थले ।।६४ ।। तद्विमुञ्चाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो भव ।।६५ ।। अथ खण्डफलास्वादलुब्धो वल्कलचीर्यपि । सङ्केतमग्रहीन्मुग्धस्ताभिः सह यियासया ।।६६।। संस्थाप्य तापसभाण्डमागाद्वल्कलचीर्यपि । यथोदितं च सङ्केतस्थानं ताभिरधिष्ठतम् ।।६७ ।। तदा च दद्दशे वृक्षाधिरुद्धैश्चरपूरुषैः । आगच्छन्सोमचन्द्रर्षिरकथ्यत च योषिताम् ।।६८।। मा शाप्सीदेष इति तास्तस्माद्भीता द्रुतद्रुतम् । नेशुम॑ग्य इव व्याधादमिलन्त्यः परस्परम् ।।६९।। स्थानं गते च पितरि कुमारस्ताः पणाङ्गनाः । नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने ।।७० ।। ददर्श रथिनं चैकं स धावन्मृगवद्वने । तमप्यृषि मन्यमानोऽवदत्ताताभिवादये ।।७१।। रथ्यपृच्छत्कुमार ! त्वं क्व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे ! पोतनाभिधम् ।।७२ ।। रथ्यवादीदहमपि यियासुः पोतानाश्रमम् । ततोऽन्वगात्तमग्रेगूमिव वल्कलचीर्यपि ।।७३।। स तापसकुमारोऽपि पथि यारथिकप्रियाम् । रथाधिरूढां तातेति भाषेत स्म मुहुर्मुहुः ।।७४ ।। रथिनं तत्प्रियाऽवोचत् केयमस्योपचारगीः । यत्तापसकुमारोऽयं मयि तातेति जल्पति ।।७५।। रथिकः स्माह मुग्धोऽयमस्त्रीकेऽस्मिन्वने वसन् । स्त्रीपुंसयोरभेदज्ञो नरं त्वामपि मन्यते ।।७६।। प्रवीयमानान्दृष्ट्वाऽश्वानूचे वल्कलचीर्यदः । वाह्यन्ते किममी तात ! मृगा नार्हत्यदो मुनेः ।।७७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org