________________
१७८
आतुरप्रत्याख्यानप्रकीर्णकम्
विपेदे धारिणी सूतिरोगेण तनयः पुनः । अदृष्टमातृकः सोऽभूत् पुमानिव निरक्षरः ।।२८ ।। अरण्यमहिषीक्षीरं पाययित्वा मुहुर्मुहुः । सोमेन्दुरार्पयद्धात्र्या धारणाय तमर्भकम् ।।२९।। अवाप साऽपि पञ्चत्वं कालेन कियताऽपि हि । धात्री दैववशेनानुयियासुरिव धारिणीम् ।।३०।। अपीप्यन्महिषीक्षीरं सोमेन्दुस्तं शिशुं स्वयम् । यान्निषण्णः शयानो वा स्वयमङ्के दधार च ।।३१।। स क्रमाद्वर्धमानोऽभूत्पादचंक्रमणक्षमः । चक्रे च प्रत्यहं पांशुक्रीडां वनमृगार्भकैः ।।३२।। एधोभिः स्वयमानीतैर्नीवारैः स्वयमाहतैः । स्वयं रसवतीं कृत्वा सोमेन्दुस्तमभोजयत् ।।३३।। वनधान्यैर्वनफलैः पोषं पोषं तमर्भकम् । सोमचन्द्रो व्यधादात्मसखं तपसि दुस्तपे ।।३४।। यौवनाभिमुखश्चालङ्कर्मीणः सर्वकर्मसु । पितृचर्याप्रवीणोऽभूदथ वल्कलचीर्यपि ।।३५ ।। फलाद्यानयनैनित्यमङ्गसंवाहनेन च । शुश्रूषां स पितुश्चक्रे सा हि सर्वव्रतोत्तमा ।।३६।। आजन्मब्रह्मचार्येव व्रती वल्कलचीर्यभूत् । स्त्रीणां नामापि नाज्ञासीदस्त्रीके निवसन्वने ।।३७ ।। प्रसन्नचन्द्रः शुश्राव वनस्थस्यान्यदा पितुः । धारिणीकुक्षिसम्भूतं सुतं सोदरमात्मनः ।।३८ ।। कीदृशोऽस्ति स मे भ्राता ? मिलिष्यति कथं पुनः ? । इत्युभूद्रणरणको राज्ञो मनसि दुर्धरः ।।३९।। अथादिशच्चित्रकरांस्तत्र यात तपोवने । यच्छ्रीमत्तातपादानां पादपरिलङ्कृतम् ।।४०।।। पितृपादाब्जहंसस्य मदीयस्यानुजन्मनः । वने निवसतो रूपमालिख्यानयत द्रुतम् ।।४१।। युग्मम् ।। प्रमाणमादेश इति प्रोच्य चित्रकरा अपि । ययुस्तत्र वने पुण्यीकृते वल्कलचीरिणा ।।४२।। ते विश्वकर्मणो मूर्त्यन्तराणीवातिकौशलात् । तमालिखन्यथावस्थमादर्शप्रतिबिम्बवत् ।।४३।। आनीय दर्शयामासू रूपं वल्कलचीरिणः । ते चित्रकारिणो राज्ञः सुधावर्तिनिभं दृशोः ।।४४।। दध्यौ नृपतिराकृत्या मत्पितुनैष हीयते । आत्मा वै जायते पुत्रः श्रुतिरेषा हि नान्यथा ।।४५।। दिष्ट्या सोदर ! दृष्टोऽसीत्यभिधायासकृन्नृपः । तं सस्वजे मूर्ध्नि जघ्रौ न चाङ्कादुदतारयत् ।।४६।। वल्कलाच्छादनधरं दृष्ट्वा वल्कलचीरिणम् । उदश्रुर्दागभूद्राजा सनिर्झर इवाचकः ।।४७।। ऊचे च प्रवयास्तातो युक्तमाचरतु व्रतम् । मद्भातुस्त्वस्य बालस्य वनवासोऽपि नार्हति ।।४८।। अहं राज्यसुखहूदे मग्नः क्रीडामि हंसवत् । पुलिन्द इव मे भ्राता वनवृत्त्याऽनुजीवति ।।४९।। अरण्यजो जीव इव दुरानेयः स पत्तने । कष्टं तु मम राज्येऽपि तस्मिन्राज्याविभागिनि ।।५० ।। वनकष्टमिति भ्रातुरनुशोचन्महीपतिः । एवमाज्ञापयामास वेश्याश्चातुर्यशालिनीः ।।५१।। मुनिवेषेण गत्वाऽङ्गस्पर्शर्नवनवोक्तिभिः । प्रलोभ्य खाण्डैश्च फलैरिहानयत मेऽनुजम् ।।५२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org