________________
खण्डः - २ दृष्टान्तसमुच्चयः
सा गवाक्षेऽन्यदा पत्युरासीनस्य कचोच्चयम् । स्वयं करसरोजाभ्यां विवरीतुं प्रचक्रमे ||३|| ददर्श च तदा राज्ञः पलितं मूर्ध्नि धारिणी । स्थानं स्वीकृत्यभिज्ञानं जरयेव निवेशितम् ।।४।। व्याजहार च राजानं स्वामिन् ! दूतोऽयमागतः । दिशोऽवलोक्य राजाऽपि प्रोचे किं नेह दृश्यते ? ।। ५ ।। राज्ञ्यथादर्शयद्राज्ञः पलितं मूर्व्युवाच च । प्राणेश ! केशराजोऽयं प्रशस्यो धर्मदौत्यकृत् ।।६।। तृतीयवयसः शस्त्रमिव यौवनघातकम् । तन्मूर्ध्नि पलितं दृष्ट्वा राजा दुरमनात ।।७।। अभ्यधाद्धारिणी देव ! किं वृद्धत्वेन लज्जसे ? | अप्येकं पलितं दृष्ट्वा यद्येवं दुर्मनायसे ||८|| पटहोद्घोषणां कृत्वा लोकः सर्वो निषेत्स्यते । न यथा वृद्धभावं ते वार्तयाऽपि प्रकाशयेत् ।।९।। राजा प्रोवाच जिमि नाहं पलितदर्शनात् । दौर्मनस्ये पुनरिदं कारणं जीवितेश्वरि ! ।।१०।। अदृष्टपलितैरस्मत्पूर्वजैराददे व्रतम् । अहं तु विषयासक्तः प्रिये ! पलितवानपि ।। ११ ।। अहमह्नाय गृह्णामि व्रतमेवं स्थितेऽपि हि । किं तु दुग्धमुखे सूनौ राज्यमारोप्यते कथम् ? ।। १२ ।। यद्वा मे व्रतमादित्सोः किं राज्येन सुतेन किम् । धीमति ! व्रतमादास्ये त्वं स्वं संवर्धयाऽऽत्मजम् ।।१३।। धारिण्यभिदधे नाहं त्वां विना स्थातुमीश्वरी । सत्यः पत्यनुयायिन्यः समये यत्र तत्र वा ।। १५ ।। तद्वालेऽपि सुते राज्यं निदधीथा अहं पुनः । शुश्रूषिष्ये वनेऽपि त्वां देहच्छायेव पार्श्वगा ।। १५ ।। अरण्यजस्तरुरिव सुतः स्वैरेव कर्मभिः । प्रसन्नचन्द्रो बालोऽपि वर्धतां तेन किं मम ।। १६ ।। सोमचन्द्रस्ततो राज्यमारोप्य तनुजन्मनि । दिक्प्रोषितस्तापसोऽभूत् पत्न्या धात्र्या च संयुतः ।।१७।। स आश्रमपदं किञ्चिच्चिरशून्यमशिश्रयत् । दुस्तपं च तपस्तेपे शुष्कपत्रादिभोजनः ।। १८ ।। पलाशपत्राण्यादाय स आश्रमकुटीं व्यधात् । मृगाणामध्वगानां च शीतच्छायाऽमृतप्रपाम् ।।१९।। स्वादुस्वादून्युदकानि वनस्पतिफलानि च । सोमेन्दुरानयत्पन्त्यै स्यूतस्तत्प्रेमतन्तुभिः ।। २० ।। तत्रापि धारिणी सा तु पत्यावत्यन्तभक्तिभाक् । तल्यं प्रकल्पयामास तदर्थं कोमलैस्तृणैः ।। २१ ।। तदानि पक्वानि पेषं पेषं च धारिणी । स्नेहं जग्राह दिवसे चक्रे च निशि दीपकान् ।। २२ ।। अरण्यगोमयैराद्रैः सा लिलेपाऽऽश्रमाङ्गणम् । पत्युः सुखासिकाहेतोर्मार्जयामास चासकृत् ।।२३।। तत्राश्रमे दम्पती तौ लालयन्तौ मृगार्भकान् । तपः कष्टमजानन्तौ कञ्चित्कालं व्यतीयतुः ।। २४ ।। सन्तोषसुखधारिण्याः धारिण्याः पूर्वसम्भवः । तत्र क्रमेण ववृधे गर्भोऽनुत्पादितव्यथः ।। २५ ।। धारिण्या सूनुरन्यूनलक्षणः सुषुवेऽन्यदा । कान्त्या दीप इवातैलपूरोऽन्तः सूतिकागृहम् ।।२६।। आश्रमे वल्कलान्येवेत्यवेष्ट्यत स वल्कलैः । पित्रा वल्कलचीरीति ततस्तन्नाम कल्पितम् ।।२७।।
Jain Education International 2010_02
For Private & Personal Use Only
१७७
www.jainelibrary.org