SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः अवदद्विण्टिकालाभं, गोकुलादर्शनं च सः ।। ३० ।। जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ।। ३१ ।। अत्रान्तरे प्रादुरासीत्, स सुरः कान्तिभासुरः । विहाय पितरं सर्वान्, मुनीनऽन्यान्ननाम च ।। ३२।। एनं कुतो न नमसीत्युक्तः स व्रतिभिस्ततः । स्वीयं व्यतिकरं सर्वं निवेद्येत्यवदत्सुरः ।।३३ ।। सजीवाम्भोऽपि पातुं यत्तदासौ मे मतिं ददौ । तत्पूर्वभववप्तापि साधुरेष न वन्द्यते ||३४|| स्नेहादपि रिपोरेव, कार्यं विहितवानसौ । यद्दुर्गतिनिमित्तं मे तदा तदुपदिष्टवान् ।।३५।। अपास्यं चेत्सचित्ताम्बु, तदैवद्वचनादहम् । व्रतभङ्गभवात्पापादभ्रमिष्यं तदा भवे ।। ३६ ।। स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ।।३७।। धनशर्मसुपर्वैवमुदीर्यागात्त्रिविष्टपम् । साधवोऽपि ततः स्थानाद्विजहुस्ते यथासुखम् ।।३८ ।। क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुक्तैः ।। ३९ ।। १७६ १९. क्षुद्ध्याने श्रीआख्यानकमणिकोशे राजगृहस्थद्रमकः । रागगिहम्मि पुरवरे आजम्मदरिद्दिओ वसइ दमओ । भिक्खामेत्तुवजीवी अहऽन्नया ऊसवे जाए । । १ । । सव्वो विनयरोओ घेत्तूणं खज्ज - पेज्ज - लेज्झाई । वेभारगिरिसमीवे सव्वत्तुगचारुउज्जाणे ।।२।। उज्जाणियाए पत्तो एत्तो जाएसु दोसु पहरेसु । कप्परयकरो दमओ नयरे भिक्खं परिब्भमइ ।।३।। पडिभवणं हिंडंतो भणिज्जए भवणरक्खवालेहिं । सव्वो वि जणो घेत्तूण भोयणं अज्ज उज्जा ।।४।। संपत्तो तातं पहुच तत्थेव तयणु सो जाव । तत्थ गओ ता लोगो भोत्तूण मणोन्नमाहारं ।।५।। तत्तो तालय-रासय-नाडय-पेक्खणय - महुरगीएहिं । अक्खित्तमणो न हु कोइ तस्स भिक्खं पयच्छेइ ।।६।। सुइरं जायं तस्स वि उत्तरमवि तस्स देइ न हु कोइ । तन्हा - छुहाकिलंतो तत्तो सो कोवमावन्नो ।।७।। वेभारसेलसिहरं समारुहेऊण महरिहसिलाए । उवविसियमहोभागे हणणकए सयललोयस्स ।।८।। रोद्दज्झवसाएणं खणइ तओ सो वि चूरिओ तीए । मरिउमसिपत्तदारुणनरए सो नारओ जाओ ।।९।। निवडंतसिलाखडहडसद्दं सोऊण पउरपुरलोगो । नट्ठो तम्हा वज्जह असुहं भावं पत्ते || १० || २०. पथिध्याने श्रीपरिशिष्टपर्वसंवलितः वल्कलचीरिणः दृष्टान्तः । अथाख्यद्भगवान् राजन्नगरे पोतनाभिधे । अभूत्सौम्यतया चन्द्रः सोमचन्द्रो महीपतिः । । १ । । सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बभूव शीलालङ्कारा विवेकजलदीर्घिका ।।२।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy