________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१७५
जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ।
मदभ्यणे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ।।७।। तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् । निषिद्धमपि कार्यं हि, कार्यमापदि धीधनैः ।।८।।
यदुक्तं “निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ।
घनाम्बुना राजपथेऽति पिच्छिले, क्वचिबुधैरप्यपथेन गम्यते" ।।९।। मृत्युदामापदमिमां, तदुल्लड्घ्य कथञ्चन । पञ्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ।।१०।। इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् । नूनं मदर्शने पुत्रो, ह्रिया पास्यति नोदकम् ।।११।। ह्रीमान् कुर्वन्न कार्यं हि, स्वच्छायातोऽपि शङ्कते । तदर्शनपथादस्यापसरामि शनैः शनैः ।।१२।। ध्यात्वेति स पुरोऽचालीत्, क्षुल्लोऽथ प्राप निम्नगाम् । तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः ।।१३।। अन्ये त्वाहुरुदन्यानि, बाधितः स शिशुभृशम् । शुष्यत्तालुमुखोरस्कश्चेतसीति व्यचिन्तयत् ।।१४।। पिबाम्यऽनादेयमपि, नाऽऽदेयं वारि साम्प्रतम् । प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ।।१५।। विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् । निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ।।१६।। पिबामीमान् कथं जीवानहं विज्ञातजैनगीः । उदबिन्दौ यदेकत्राऽसङ्घयजन्तून् जिना जगुः ।।१७।। त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः । नीरे स्युरिति तद्धाती, सर्वेषां हिंसको भवेत् ।।१८।। तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् । तान् प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति कः ? ।।१९।। सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा । निर्णायेति शनैर्नद्यां, स मुमोचाञ्जलेर्जलम् ।।२०।। बालोऽप्यबालधैर्यस्तामुत्तीर्य तटिनी ततः । तत्तीर एव सोऽपतत्तृष्णया गन्तुमक्षमः ।।२१।। धर्मस्थैर्यं दधच्चित्ते, पिपासाविवशोऽपि सः । स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ।।२२।। प्रयुज्याथावधिज्ञानं ज्ञात्वा पूर्वभवं निजम् । पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे प्रविश्य च ।।२३।। अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः । समायान्तं सुतं दृष्ट्वा, हष्टः सोऽप्यचलत्पुरः ।।२४ ।। (युग्मम्) अथोदन्या व्यथा-नां, मुनीनामनुकम्पया । धनशर्माऽमरो भूरिगोकुलान्यध्वनि व्यधात् ।।२५।। तेभ्योऽधिगत्य तक्रादि, साधवः स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसाद्य, पीयूषमिव निर्जराः ।।२६।। विहरन्तः सुखेनैवं, तत्कृतै वजिका व्रजे । उल्लघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ।।२७।। ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् । स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः ।।२८।। दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती । उपधेर्विण्टिकां तत्राऽपश्यत्स्वां न तु गोकुलम् ।।२९ । ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org