________________
खण्ड: - २ दृष्टान्तसमुच्चयः
ते जनाः स्निग्धमधुराद्यशनादिभिर्नित्यं सेवन्ते । क्रमेण कर्मवशाद्रसलौल्यं जातं, तेन नित्यावासं प्राप । ततः कालान्तरे सातगौरवाद्विहारोपदेशादिक्रियालसो जातः, ऋद्धिगौरवान्मिथ्याभिमानी यथार्हविनयाद्यलसोऽभूत्, रसगौरवात्तु क्षेत्रकुलादिसंसक्तीभूय गोचरीगवेषणालसो जातः । क्रमेण तत्रैव मृत्वा नगरनिर्गमनप्रत्यासन्नयक्षायतनाधिष्ठायकत्वेन व्यन्तरो जज्ञे । विभङ्गेनावलोक्य पूर्वभवं संजातपश्चात्तापोऽधुनेदं प्राप्तकालमिति संचिन्त्य साधूनां बहिर्गच्छतां पुरतो यक्षप्रतिमामुखान्महतीं जिह्वां निःसारयामास । प्रतिदिनमेवं करोति । एकदा साहसिकसाधुनैकेन पृष्टं“कस्त्वं भोः ? कथं रसनामाकृष्य दर्शयसि ?” ततः सविषादं यक्षः प्रकटीभूयोवाच-:“अहं धर्माध्वपङ्गुर्भवद्गुरुरार्यमङ्गुनामा प्रमादान्मूलक्षतिं प्राप्य महाव्रतभङ्गं विधायात्र पुरनिर्धमने यक्षो जातः । भवद्भिरपि महारसलाम्पट्यपरैर्न भाव्यं, जिह्वास्वादेन पतितोऽहं इति ज्ञापनायैवं करोमि " इति श्रुत्वा ते सविस्मया रसत्यागतपस्युद्यतधियो बभूवुः । सर्वेषां पुरस्त इत्युपदेशं वितन्वन्ति"इन्द्रियजयो हि पुंसां परमसंपद्धेतुः ।
१६. गृद्धिध्याने श्रीउपदेशमालाहेयोपादेयायां कण्डरीकराजस्य कथानकम् ।
पुण्डरीककण्डरीकौ पौण्डरिकिण्यां पुरि राजानौ भ्रातरावभूताम् । अन्यदा कश्चित्सूरिराययौ । तद्धर्मदेशनया प्रतिबुद्धः पुण्डरीकः प्रविव्रजिषुर्लोकानाहूय सहोदरमुवाच “भवन्तं राज्येऽभिषिच्य प्रव्रजामीति । सोऽब्रवीत्, तत्किं मया नरके यातव्यम् ? अलं मे राज्येन, अहमपि प्रव्रजामि । प्रभुराह कृत्यमिदं भवादृशां, किन्तु दुःशक्यमिति । तेनोक्तं न किञ्चिद् दुष्करं समर्थानां, ततो वार्यमाणोऽपि स निष्क्रान्तः, अनायकं राज्यमितीतरोऽधारितो लौकेः । पश्चाद् बहुकालं प्रव्रज्यां विधायान्यदा दुस्सहतया परिषहोपसर्गाणां विचित्रत्वात्कर्मपरिणतेः, अनादिभवाभ्यस्ततया विषयलोलतायाः, जातभग्नव्रतपरिणामः कण्डरीकोऽचिन्तयदधितिष्ठामि तत्प्राक्प्रतिपन्नं राज्यमित्याकूतेनागच्छत्स्वपुरं स्थितो बहिरुद्याने, निवेदितस्तत्पालेन राज्ञे, किमेकाकी ? इति विमर्शात्कतिचिदाप्तपुरुषपरिकरः समागतो राजा । दृष्टोऽवलम्बिततरुशाखापात्रो दूर्वावितानोपरिवर्ती स तेन । ततो लक्षिततदभिप्रायो राजामात्यादीनुवाच मया वार्यमाणेनानेनाग्राहि व्रतम्, अधुनाऽयं राज्यं गृह्णातु, वयं पुनरेतदिति वदता च ददिरे तस्मै राज्यचिह्नानि, जगृहे तल्लिङ्गम् । जगाम गुर्वभिमुखम्, इतरोऽपि राज्यविष्टरमध्यास्य तद्दिन एव भूयो भक्षयित्वोत्पन्नविसूचिको रारट्यमानो भ्रष्टप्रतिज्ञोऽद्रष्टव्योऽयमिति लौकेर्निन्दनादुल्लसिततीव्ररौद्रध्यानो मृत्वा गतः सप्तमनरकपृथिवीम् । पुण्डरीकः पुनर्गत्वा गुर्वन्तिकं करोमि निष्कलङ्कं संयममित्याविर्भूततीव्रशुभपरिणामोऽनुचितानुपानत्काऽवनिगमनेन गलच्चरणरुधिरः समुदीर्णक्षुत्पिपासापरीषहस्तथाप्यविचलितसत्त्वस्तद्दिन एव मृत्वा गतः सर्वार्थसिद्धिमिति ।
Jain Education International 2010_02
,
१६५
For Private & Personal Use Only
www.jainelibrary.org