________________
१६४
आतुरप्रत्याख्यानप्रकीर्णकम्
सह विजहार । स्वामी पुनर्विनीतायां पुरि समवासार्षीत् । तत्र प्रभुं प्रणम्य भरतेन पृष्टो भाव्यर्हच्चक्रवादिस्वरूपं प्रभुर्जगौ । पुनः पप्रच्छ-'किं कश्चिदिह पर्षदि अत्र भरतक्षेत्रे त्वमिव जिनो भावी ?' । स्वाम्याख्यत्-"अयं तव सूनुर्मरीचिश्चरमतीर्थकृद्वीरनामा इह भरते भावी, आद्यो वासुदेवो भावी विदेहे चक्री भावी च" । तच्छ्रुत्वा भरतो मरीचिं प्रदक्षिणीकृत्य वन्दित्वैवमवोचत्'तव पारिव्राज्यं न वन्द्यं किं तु त्वं भाव्यर्हन्नसि, तेन वन्द्यसे' इत्यादि सर्वं जिनोदितं कथितवान् । ततःतदाकर्ण्य मरीचिस्त्रिरास्फोट्य त्रिपुटीं मुदा । इत्युवाचोच्चकैर्विष्णुर्भविष्यामि यदादिमः ।।१।। मूकानगर्यां मे चक्रवर्तित्वं च भविष्यति । भाव्यहं चरमश्चार्हन्, पर्याप्तमपरेण मे ।।२।। आद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृतामहो मे कुलमुत्तमम् ।।३।।
इत्यात्मप्रशंसां चकार, तेन नीचगोत्रकर्मोपार्जितम् । अन्यदा तस्य शरीरे व्याधिरुत्पन्नः । साधुभिरपाल्यमानो ग्लान एवं दध्यौ--"अहो अमी साधवो निर्दाक्षिण्याः, मम पालनं दूरेऽस्तु, परं दृष्ट्या ईक्षन्तेऽपि न । यद्वा दुश्चिन्तितमिदं मया स्वतनोरपि परिचर्यां न कुर्वन्ति तर्हि भ्रष्टस्य मम कथं कुर्युः !अतो व्याधिषु गतेषु शिष्यमेकं करिष्यामि" एवं ध्यायन्मरीचिः पटुरभवत् । अन्यदाऽस्य कपिल: कुलपुत्रको मिलितः, तत्पुर आर्हन्तं धर्मं धर्मार्थी स ज्ञापितस्तेन । ततः कपिलोऽब्रवीत्-किं त्वन्मार्गे धर्मो न विद्यते ?' । ततःजिनधर्मालसं ज्ञात्वा, शिष्यमिच्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते ।।१।। तच्छिष्यः कपिलोऽथाभूत्, मिथ्याधर्मोपदेशनात् । मरीचिरप्यब्धिकोटीकोटीसंसारमार्जयत् ।।२।। मरीचिस्तदनालोच्य, विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽभवत् ।।३।। शिष्यान् विधायासूर्यादीन्, स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके, कपिलोऽप्यमरोऽभवत् ।।४।। स प्राग्जन्मावधेख़त्वा, मोहादभ्येत्य भूतले । स्वयं कृतं साडयमतमासूर्यादीनबोधयत् ।।५।।
तदाम्नायादत्र साङ्घन्यं, प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने, प्रायो लोकः प्रवर्तते ।।६।। १६. गृद्धिध्याने श्रीउपदेशप्रासादे मङ्गुनामाचार्यस्य दृष्टान्तः ।
मथुरायां मङ्गुनामाचार्यः साधुपञ्चशतीपरिवृत्त आस्ते । जनास्तदुपदेशगुणै रञ्जितास्तदा तं युगप्रधानमाहुः। यतः
विहाय कार्यान्तरमन्तराय-मन्याननादृत्य मुनीनशेषान् । भक्त्या वशीभूत इवातिभूरिः, सूरिं सिषेवे हि जनस्तमेव ।।१।।
। यतः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org