SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः १५३ १२. मिथ्याध्याने श्रीउपदेशपदव्याख्यायां श्रीगोविन्दवाचकवृत्तान्तः । गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते । यथासीनगरे क्वापि सुरिभिर्दुष्कृतास्पदे ।।१।। गोविन्दो नाम निःशेषविद्वज्जनमदापहः । शाक्यभिक्षुर्महावादी दानवोद्धरचेष्टितः ।।२।।युग्मम् ।। तत्राययौ विहारेण कदाचिन्मुनिभिर्वृतः । सिद्धान्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणैः ।।३।। श्रीगुप्तनामकः सूरिभूरिभव्यकजांशुमान् । साधुलोकोचितस्थाने तस्थौ स्थास्नुयशोभरः ।।४।। ग्रहतारागणैरिन्दुरुढ्योतितनभस्तलैः । यथा बभस्त्येष भृशं तथान्तेवासिभिर्निजैः ।।५।। यथा सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीनाः पद्मसद्मनि मानसे ।।६।। तथा गुणज्ञस्तत्रत्यो जनः सम्मदसङ्गतः । तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः ।।७।। शुश्राव च जिनैरुक्तं धर्मं कर्मक्षयावहम् । तेनोच्यमानमानन्दध्यानव्याप्तविहायसा ।।८।। जातः प्रवादो नगरे श्रुतरत्नमहोदधिः । न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः ।।९।। यथा सप्तच्छदामोद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् ।।१०।। को नाम मयि पाण्डित्यमहासागरपारगे । विजृम्भमाणे लभतामिलायामुज्ज्वलं यशः ? ।।११।। गर्वोद्ग्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् । सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् ।।१२।। वाचोयुक्तिभिरूञ्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः सूरिणा निस्फुरीकृतः ।।१३।। विलक्षभावं भूयांसं स सम्पन्नो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन ।।१४।। तावन्न जीयते तस्मादपक्रम्य प्रदेशतः । दूरदेशांन्तरप्राप्तौ सत्यां सूर्यन्तरान्तिके ।।१५।। समुत्पादितविश्वासो दिदीक्षे दक्षभावतः । लग्नः सिद्धान्तमध्येतुं परं सत्वरमानसः ।।१६।। विपर्यासाञ्च नो सम्यक्तं बोर्बु पारयत्यसौ । कतिचिद्दिनात्यये जाते भूयः सम्भूय सौगतः ।।१७।। उपतस्थे तथैवासौ सूरिणाऽनुत्तरीकृतः । भूयोऽप्यन्यां दिशं गत्वा प्रव्रज्याधीत्य चागमम् ।।१८।। किञ्चित्तथैव समदः प्रपेदे वादवाञ्छया । तमेव सूरिं तेनापि, शक्त्या नीतो विलक्षताम् ।।१९।। भूयस्तृतीयवारां स दूरदेशान्तराश्रयात् । गृहीतदीक्ष आचरे आद्याध्ययनसंश्रिते ।२०।। वनस्पतीनामुद्देशे पपाठालापकानिमान् । वनस्पतीनां जीवत्वसाधकान् शुद्धयुक्तिभिः ।।२१।। यथा-"इमंपि जाइधम्मयं एयंपि जाइधम्मयं । इमंपि वुविधम्मयं एयंपि वुड्दिधम्मयं । इमंपि चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिलाइ एयंपि छिन्नं मिलाइ । इमंपि आहारयं एयपि आहारगं । इमंपि अणिययं एयंपि अणिययं । इमंपि असासयं एयंपि असासयं । इमंपि चउवचइयं एयंपि चउवचइयं । इमंपि विपरिणामयं एयपि विप्परिणामयमिति ।।" Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy