SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १५२ आतुरप्रत्याख्यानप्रकीर्णकम् आबालाध्यक्षसिद्धमेवेदं” । इत्यालोच्य साधूनां स स्वकल्पितं बभाषे । तदा स्वगच्छस्थविरैरिदमुक्तं "हे आचार्य ! भगवद्वाक्यमिदमवितथमेव, नाध्यक्षविरुद्धम् । यत एकस्मिन् घटादिकार्येऽवान्तरकारणकार्याणि संख्यातीतानि सन्ति । मृदानयनमर्दनपिंडविधानशिवकस्थासादिकाल: सर्वोऽपि घटनिवर्तनक्रियाकाल इति तवाभिप्रायः, अयं चायुक्त एव । यतस्तत्र प्रतिसमयमन्यान्यकार्याण्यारभ्यन्ते निष्पद्यन्ते च, कार्यस्य करणकालनिष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तसमय एवारभ्यते तत्रैव निष्पद्यते चेति । अत्र बहु वक्तव्यं, तन्महाभाष्यतो ज्ञेयम् । तथा चोक्तं भवताऽर्धसंस्तृतदर्शनात्तदप्ययुक्तं, यतो यद्यदा यत्राकाशप्रदेशे च समास्तीर्यते, तत्तदा तत्रास्तीर्णमेवेदम् । पाश्चात्यवस्त्रास्तरणसमयेन खल्वसावास्तीर्ण एव । विशिष्ट-समयापेक्षाणि भगवद्वचनान्यतोऽदोषः ।" इत्यादियुक्तिभिरबुध्यमानं तं विहाय स्थविराः श्रीमद्वीरान्तिके ययुः । प्रियदर्शनापि तदा तत्रैव श्राद्धढंककुंभकृद्गृहे आसीत् । सा जमाल्यनुरागेण तन्मतमेव प्रपन्ना । ढंकमपि व्युद्धाहयितुं प्रवृत्ता । ततो ढंकेन मिथ्यात्वमुपगतेयमिति ज्ञात्वा प्रोक्तं-'नेद्दशं वयं किमपि जानीमः ।” अन्यदा चापाकमध्ये मृद्भाजनोद्वर्तनपरावर्तनं कुर्वता तेनाङ्गारमेकं वस्त्रैकदेशे प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः प्रियदर्शनायाः संघाट्यंचलो दग्धः । तया प्रोक्तं-"श्रावकं ! त्वया मदीयसंघाटिका दग्धा' । तेनोक्तं-"ननु दह्यमानं दग्धमिति भगवतां सिद्धान्तः, ततः क्व केन त्वदीया संघाटी दग्धा ।" इत्यादि तदुक्तं परिभाव्य संबुद्धा सा सम्यग् प्रेरितास्मीत्यभिधाय मिथ्यादुष्कृतं दत्त्वा जमालिं गत्वा प्रज्ञापयति । यदाऽसौ कथमपि न प्रबुद्धस्तदा तमेकाकिनं मुक्त्वा भगवत्समीपमाजगाम । एकदा जमालिश्चंपायामेत्य श्रीवीरमब्रवीत्-“हे जिन ! मां मुक्त्वाऽन्ये तव शिष्याश्छाद्मस्थ्येनैव विहरन्ति । अहं तूत्पन्नज्ञानदर्शनोऽर्हन् सर्वज्ञो जातः ।" ततः स गौतमेनोचे, जमाले इति मा वद । स्खलति क्वापि न ज्ञानं, केवलज्ञानिनो यतः ।।१।। यदि केवली त्वमसि, तर्हि मत्प्रश्नोत्तरं प्रयच्छ - अयं लोकः शाश्वतोऽशाश्वतो वा ? इमे जीवा नित्याः किं वाऽनित्याः? । इति श्रुत्वा स तदुत्तरमलभमानो मौनं दधौ नियंत्रितसर्प इव । ततो विभुः प्राह - “हे जमाले ! ये छद्मस्थाः शिष्यास्तेऽपि अनयोरुत्तरं व्याकर्तुमीशते "नित्यो भूतभवद्भाव्यपेक्षया लोक एषकः । अनित्यः पुनरुत्सर्पिण्यवसर्पिण्यपेक्षया ।।१।। द्रव्यरुपेण जीवोऽयं जमाले ! शाश्वतः सदा । तिर्यग्नृनारकामत्यैः पर्यायैस्तु न शाश्वतः ।।२।।" स्वामिनो वाक्यमश्रद्दधानः स्वं च परं चोत्सूत्रारोपणैर्मिथ्याभिनिवेशेन व्युद्गाहयन् अवसाने स पक्षाशनत्यागं विधायानालोच्याप्रतिक्रान्तो लान्तके किल्बिषिकस्त्रयोदशपयोध्यायुः स्थित्योत्पन्नः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy