________________
खण्डः - २ दृष्टान्तसमुच्चयः
आमंति तेण भणियं । तीए लोभेण मा अण्णो गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो बद्धो य । ततो पभाए पसेणइस्स रण्णो उवणीतो, राइणा पुच्छितो, तेण सब्भावो कहितो, रायणा भणितोजं मग्गसि तं देमि, सो भणति - विचितिउं मग्गामि, रायणा तहत्ति भणिए असोगवणियाए चिंतेउमारद्धो- किं दोहिं मासेहिं साडिगाभरणे पडिवासिगा जाणवाहणाउज्जाणोवभोगा मम वयस्साणं पव्वागयाण घरं भज्जाचउट्ठयं जंचण्णं उवउज्जं ?, एवं जाव कोडीएवि ण ठाएति । चिंतंतो सुहज्झवसाणो संवेगमावण्णो जाई सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णति - किं चिंतियं ?, सो भणति - 'जहा लाभो तहा लोभो' कण्ठ्यः, राया भणति - 'कोडिंपि देमि अज्जोत्ति भणति राया पहट्ठमुहवण्णो ।' सोऽवि चइऊण कोडिं जातो समणो समिपावो || १ ||
१२. मिथ्याध्याने श्रीउपदेशप्रासादे जमालेः प्रबन्धः ।
कुंडपुरं नाम नगरं । तत्र भगवतः श्रीशलेयस्य भागिनेयो जमालिर्नामा राजपुत्र आसीत् । तस्य च भार्या श्रीवर्धमानस्य दुहिता प्रियदर्शनाह्वा । जमालिस्तया समं भोगान् बुभुजे । अन्यदा विभुर्विहरंस्तत्रागात् । जमालिस्तमायान्तं मत्वा तत्रागत्य प्रदक्षिणापूर्वं नत्वा धर्मदेशनामिमामशृणोत्
“गृहं सुहृत्पुत्रकलत्रवर्गो, धान्यं धनं मे व्यवसायलाभः ।
कुर्वाण इत्थं न हि वेत्ति मूढो, विमुच्य सर्वं व्रजतीह जन्तुः । । १ । । "
१५१
इति वाचं श्रुत्वा गृह एत्य महताऽऽदरेण पितुर्मातुश्चाज्ञां लात्वा स क्षात्रपञ्चशतीयुतः प्राव्रजत् । तदनु सहस्त्रस्त्रीयुता प्रियदर्शनापि प्रव्रजिता । ततश्चैकादशस्वंगेष्वधीतेषु तेन जिनो विहारार्थमुत्कलापितः । जिनेन तूष्णीमास्थाय न किंचिदुत्तरमदायि । तथापि पञ्चशतसाधुयुतो निर्गतः श्रावस्त्यां गतः । तत्र च तिंदुकोद्याने चैत्ये स्थितः । तत्रास्यान्तप्रान्ताहारैस्तीव्रो रोगातंकः समुत्पन्नः । तेन च न शक्नोत्युपविष्टः स्थातुं । ततो बभाण श्रमणान् - 'मन्निमित्तं शीघ्रमेव संस्तारकमास्तृणीत्, येन तत्र तिष्ठामि' । ततस्तै; कर्तुमारब्धोऽसौ । बाढं च दाहज्वराभिभूतेन जमालिना पृष्टं - 'संस्तृतः संस्तारको न वेति ?' । साधुभिश्च संस्तृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तं- 'संस्तृत इति' । ततोऽसौ वेदनाविह्वलितचेता उत्थाय तत्र तिष्ठासुरर्धसंस्तृतं तं दृष्ट्वा क्रुद्धः । क्रियमाणं कृतं' इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्यात्वोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास - " क्रियमाणं कृतं, चलमानं चलितमित्यादिभगवद्वचनं वितथं । यस्मान्मम साक्षात्प्रत्यक्षमेवेदं वृत्तं, यदुत संस्तारकः क्रियमाणो न कृतः । तस्मात्सर्वमपि वस्तु क्रियमाणं कृतं न स्यात् । किं तु कृतमेव कृतमुच्यते । यत् घटादिकार्यं क्रियाकालस्यान्त एव भवदृश्यते, शिवस्थासाद्यद्धायां न दृश्यते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org