________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१४९
सारथिस्तमथोवाच, संगरेषु सहस्रशः । नियूँढोऽप्यधुना पादप्रहारेणापि यो मृतः ।।३४ ।। सोऽयं चेद्विश्वजीवातुर्जीविता तव बान्धवः । खण्डशस्तद्गतोऽप्येष, प्रगुणीभविता रथः ।।३५ ।। क्व मे बन्धुर्मृतोऽस्तीति, कामं सासूयमानसः । तं मुहुः कुटिलं पश्यन्नचालील्लाङ्गली पुरः ।।३६।। रोपयन्तं निरूप्याथ, शिलायां नलिनी क्वचित् । सारम्भमभ्यधात् कंचिदुचैःशब्दं हसन् हली ।।३७ ।। व्यामूढात्मन् किमेतस्मिन्नत्यन्तकठिनेऽश्मनि । सहस्रैरपि यत्नानां, प्ररोहति सरोजिनी ? ।।३८ ।। सोऽप्यवादीत्तवायं चेत्, प्राणिष्यति सहोदरः । पाषाणे तत् खरेऽप्यस्मिन्, प्ररोक्ष्यत्यरविन्दिनी ।।३९।। इत्येतस्यापि भारत्यामवज्ञाविवशाशयः । व्यक्तोत्प्रासस्मितस्मेरश्चचाल मुसली पुरः ।।४०।। ततो दावाग्निनिर्दग्धं, सिञ्चन्तमवनीरुहम् । कंचिदारामिकं रामः, पश्यति स्म व्रजन् पुरः ।।४१।। तं चाभ्यधाद्धिगेतां ते, हन्त दुर्व्यवसायताम् । मुञ्चन्ति जातुचिद्दग्धभूरुहोऽपि किमङ्कुरान् ? ।।४२।। स जगाद यदि स्कन्धशवो वार्तयिता त्वया । शावलीभविता भूयस्तदाऽयमपि पादपः ।।४।। तामश्रुत्वेव तद्वाचमुञ्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु, क्षिपन्तं कंचिदैक्षत ।।४४।। तमप्यभिदधे गावः, कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति, गताः कङ्कालशेषताम् ? ।।४५ ।। तेनाप्यूचे बल: पद्भ्यां, गन्ता चेदेष संस्थितः । चरितारस्तदा गावोऽप्यमूर्दूर्वाङ्करानिमान ।।४६।। रामोऽथाचिन्तयत् सत्यं, किं मृतोऽयं ममानुजः ? । वदन्ति यदमी सर्वेऽप्येकरूपमिदं वचः ।।४७ ।। यावदित्याप्तचैतन्यः, किंचिञ्चलति लागली । तावदुद्योतिताऽऽशान्तः, कश्चिदस्थात् पुरः सुरः ।।४८।। सोऽब्रवीत् सीरिणं सोऽहं, सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य, देवभूयमपागमम् ।।४९।। स्मरस्येतत् परिव्रज्याकाले मामर्थयिष्यसे । यन्मामभ्युद्धरेर्जातु, पतन्तं व्यसनार्णवे ।।५० ।। तत्त्वामिदानीमालोक्य, मोहनिद्राविसंस्थुलम् । प्रबोधयितुमभ्यागां, तां तवाभ्यर्थनां स्मरन् ।।५१।। श्रीनेमिना पुरा मृत्युर्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभूदन्यथा नार्हतां गिरः ।।५२।। एतान्यश्मरथादीनि, वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय, दर्शितानि मयैव ते ।।५३।। विमुच्य तमिमं मोहं, संदोहं दुःखसंपदाम् । आत्मनीनं महत् किंचित्, कर्म निर्मीयतां त्वया ।।५४ ।। बन्धवः खल्ववाप्यन्ते, जीवैर्जन्मनि जन्मनि । किं तु ते मोह सैन्यैककेतवो भवहेतवः ।।५५।। जीवाः सर्वे हहा ! बन्धुसंहतिस्नेहमोहिताः । दुःखप्लोषक्षमे कर्मण्युत्सहन्ते न जातुचित् ।।५६।। बन्धुस्नेहोऽतराम्भोधिरेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्रामधामतद्विधुनीहि तम् ।।५७ ।। इति सिद्धार्थदेवोक्तां, गिरमाकर्ण्य लागली । जल्पति स्म त्वया बन्धो!, साधु साध्वस्मि बोधितः ।।५८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org