________________
१४८
आतुरप्रत्याख्यानप्रकीर्णकम्
कोपाटोपात्ततः सिंहनादमुच्चैश्चकार सः । येनारण्यमृगास्त्रेसुः, कम्पते स्म च काश्यपी ।।९।। जगाद च मदाध्मातः, पातकी ननु कोऽस्ति भोः ? । निद्राणमतुलप्राणं, योऽवधीन्मम बान्धवम् ।।१०।। सुप्त-मत्त-प्रमत्तेषु, बाल-स्त्री-मुनि-गोष्वपि । क्रूरकर्मैकचाण्डालोऽप्यभिज्ञः प्रहरेत कः ? ।।११।। दोर्दोऽप्यस्ति चेत् कश्चित्, तत् स्वमाविःकरोतु सः । भुजोष्मज्वरिणां बाहुः, सर्वेषामेष भेषजम् ।।१२।। इत्याद्यनेकशः कोपाद्गिरमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य, मूर्छितः क्ष्मातलेऽपतत् ।।१३।। क्षणाचैतन्यमासाद्य, शीतैः कान्तारमारुतैः । रोदयश्वापदान् काममाक्रन्दैविललाप सः ।।१४ ।। हा ! विश्वेष्वेकशौण्डीर !, हा ! रिपुष्वेकरोषण ! । हा ! गुणिष्वेकधौरेय !, हा ! गुरुष्वेकवत्सल ! ।।१५।। हा ! कंसध्वंसघोरांस !, हा ! कालनलनीरद ! । हा ! निःसन्धजरासन्ध !, हा ! रणक्रूरविक्रम ।।१६।। हा ! लक्ष्मीकेलिपल्यङ्क !, हा ! निःशङ्कशिरोमणे ! । हा ! यशःकैरवाराम !, हा ! रामनयनोत्सव ! ।।१७।। शस्त्राघातैर्द्विषां तैस्तैः, श्रमोऽप्यासीन्न ते पुरा । संप्रत्यङ्ग्रिव्रणादस्मान्मृत्युः श्रद्धीयतां कथम् ? ।।१८ ।। तदुत्तिष्ठ द्रुतं भानुरारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयोऽप्यग्रतो गन्तुमीश्वहे ।।१९।। चरणव्रणपीडाभिर्न चेञ्चलितुमीशिषे । तदाऽऽरोह मम स्कन्धं, बन्धो ! किमसि मोहितः ? ।।२०।। किमिति क्रन्दतोऽप्येवं, वितरस्युत्तरं न मे ? । इमे हि श्रवसी पातुमुत्सुके ते वचोऽमृतम् ।।२१।। रोषं मयि पुराऽकार्षीः, साऽऽगस्यपि न जातुचित् । इदानीं तु विनाऽप्यागः, केयं ते दीर्घरोषिता ? ।।२२।। हा ! दैव ! यद्ययं नेतुं, चिन्तितोऽभूदृशामिमाम् । तत्त्वया किं कृतो विश्वमौलिलालितशासनः ? ।।२३।। यद्वा ज्ञातं नितान्तं यं, विडम्बयितुमीहसे । तस्य कन्दलयस्येवमतीव महतीः श्रियः ।।२४ ।। एतैर्वा किमुपालम्भैर्धातर्यावः पुरः क्वचित् । दैवाय प्रभविष्यावस्तत्रामुष्मै दुरात्मने ।।२५।। निद्रासुखासिकालोभाद्, गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः, सच्छायेऽत्रैव कानने ।।२६।। इत्यादि प्रलपन्नुच्चावचेन वचसा मुहुः । सीरभृत्तं दिनं तां च, यामिनीत्यवाहयत् ।।२७ ।। प्रगे च वचनैस्तैस्तैरनुतिष्ठन्तमच्युतम् । जीवद्रुद्ध्या निजस्कन्धमध्यारोप्य बलोऽचलत् ।।२८ ।। स्कन्धन्यस्तहरिर्बन्धुस्नेहव्यामोहितो हली । भ्राम्यति स्म सरिच्छलकाननानि दिवानिशम् ।।२९।। पुष्पैर्वन्यद्रुमाणां च, नित्यमानर्च शाङ्गिणम् । एवं रामोऽतिचक्राम, षण्मासान् पर्यटन् वने ।।३०।। प्राप प्रावृडथाऽऽशान्तान्नीलयन्ती बलाहकैः । नूतनैरङ्कुरोद्गारैर्मेदिनीमण्डलं पुनः ।।३१।। अथ ग्रावमयं शैलादुत्तीर्ण हेलया हली । स्यन्दनं कंचिदद्राक्षीत्, समभूभागभङ्गुरम् ।।३१।। सज्जयस्तं जजल्पेऽथ, सारथिः सीरपाणिना । रथेऽस्मिन् कणशो भग्ने, कस्ते मूढ ! मुधा श्रमः ? ।।३३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org