________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१४७
मुच्छावसेण महिमंडलम्मि पडिओ तओ परियणेण । एसो असोक्खकारी पहुणो इय जायकोवेण ।।२५ ।। पिट्टिज्जंतो सो आह कव्वमेयं कयं मए नेय । किंतु महं समणेणं समप्पियं दुकखमूलं ति ।।२६।। उवलद्धचेयणेणं रन्ना उज्जाणपालओ पुट्ठो । केण कयं कव्वमिमं ? सो भणइ वणम्मि मुणिण त्ति ।।२७ ।। तो तत्थ निवो पत्तो रिसिणो वंदणयखामणनिमित्तं । वंदित्तु खामिऊणं पडिवज्जिय सावगं धम्मं ।।२८ ।। संपत्तो नियभवणे मुणी वि सरिऊण पुव्वदुञ्चरियं । आलोइय पडिकंतो सम्म गुरुपायमूलम्मि ।।२९ ।।
सुक्कज्झाणानलदड्डघाइकम्मिंघणो विमलनाणो । निम्महियसेसकम्मो सासयसोक्खं सिवं पत्तो ।।३०।। ९. द्वेषध्याने श्रीकल्पसूत्रसुबोधिकायां वीरकदेवस्यावसरः । __ कुत्रचिन्नगरे केनचिद्राज्ञा वीरकशालापतिभार्या वनमालानाम्नी सुरूपेति स्वान्तः पुरे क्षिप्ता, स च शालापतिस्तस्या वियोगेन विकलो जातो, यं कञ्चन पश्यति ते 'वनमाला' 'वनमाला' इति जल्पति, एवं च कौतुकाक्षिप्तैरनेकैलॊकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टः, ततश्चाऽस्माभिरनुचितं कृतमिति चिन्तयन्तौ तौ दम्पती तत्क्षणाद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलिकत्वेन समुत्पन्नौ, शालापतिश्च तौ मृतौ श्रुत्वा ‘आः पापिनोः पापं लग्नम्' इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्वा व्यन्तरोऽभूद्, विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्-अहो इमौ मद्वैरिणौ युगलसुखमनुभूय देवौ भविष्यतस्तत इमौ दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या सङ्क्षिप्तदेही तौ इहाऽऽनीतवान्, आनीय च राज्यं दत्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गतौ, अथ तस्य वंशो हरिवशः, अत्र युगलिकस्याऽत्राऽऽनयनं शरीरायुः सक्षेपणं नरकगमनं चेति सर्वमाश्चर्यम् । १०. मोहध्याने श्रीपाण्डवचरित्रग्रन्थे विष्णुतनुं वहतो बलभद्रस्य मोहविडम्बना ।
अथेत्यव्याहतज्ञानो, व्याजहार मुनीश्वरः । बल: सलिलमादाय, केशवान्तिकमाययौ ।।१।। जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वम् । स्फीतमस्तीदमानीतमम्भः सुरभि शीतलम् ।।२।। तत् प्रक्षाल्य क्षणादास्यं, कणेहत्य निपीय च । दूरकान्तारसंचारसूतिः श्रान्तिर्विनीयताम् ।।३।। अव्याहरति कंसारौ, सीरभृत् पुनरब्रवीत् । किमु रुष्टोऽस्यरिष्टारे !, कालक्षेपान्मनागपि ? ।।४।। एष तेऽसांप्रतं रोषः, सांप्रतं तु प्रसीद मे । देशे दवीयसि प्राप्तिर्वारिणोऽत्रापराध्यति ।।५।। तथाप्यस्मिन्नजल्पाके, सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः, शेतां नामैष तन्मनाक् ।।६।। इत्यालेच्य स्थितः कृष्णं, परितः कृष्णमक्षिकाः । भ्रमन्ती:क्ष्य संभ्रान्तः, सोऽपि(प)निन्येऽवगुण्ठनम् ।।७।। ततोऽपश्यदपेतासुं, कंसविध्वंसनं हली । शोणितैश्चोल्बणं भलिव्रणं चरणपल्लवे ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org