SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः १४५ ९. द्वेषध्याने श्रीआवश्यकहारिभद्रियटीकादर्शिता मधुदेवपिप्पलादयोः कथा । इह सुलसासुभद्रानामकं परिव्राजिकाद्वयमासीत्, सुलसा अतीवानेकशास्त्रकोविदा, अत्रान्तरे याज्ञवल्क्यनाम्रा परिव्राजकेन यो मां वादे विजयते तस्याहं शिष्य इत्युद्घोषणापूर्वकं पटहो दापितः, सुलसया च जितोऽसौ, तच्छिष्यत्वं चानेन प्रपन्नम्, अतिपरिचये च तयोरकार्यप्रवृत्तिरभूद्, गर्भश्च सुलसायाः समभवद्, विज्ञाते च सुभद्रया निष्ठुरमुपालब्धाऽसौ, प्रच्छन्ने च धृता, अन्यस्मिश्च वासरे रात्रौ पुत्रं प्रसूता, अविज्ञाता च सुभद्रया पिप्पलवृक्षस्याधस्तात्पुत्रं परित्यज्य परिव्राजकेन सह रजन्यामेव निर्जगाम, प्रातश्च पदानुसारेणान्वेषयन्त्या सुभद्रया डिम्भो दृष्टः, अयं च बुभुक्षितो वित्रसातः पिप्पलफलं मुखे पतितमास्वादितवानिति पिप्पलाद इति नाम तस्य कृतं, वृद्धिं नीतः, पाठितश्चासौ सुभद्रया, वाग्गमी चातीव जातः, श्रुतमातृपितृसम्बन्धश्च मातरि पितरि च प्रद्वेषमापन्नोऽनार्यान् वेदाँश्चकार, तेषु चेदं प्ररूपितवान्-यदुत राजभिरशिवादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमानुषादिभिर्यागः करणीय इति, तस्य च 'अलिएहि य वसुराया' इत्यादिकथानकप्रसिद्धः पर्वतको नाम मित्रमभूत्, तेन चोक्तं-अजैर्यष्टव्यमिति वेदेऽपि प्रतिपादितमेवेति शोभनं त्वया प्ररूपितमिति । अपरं च मधुनामा राजपुत्रः कुत्रचित् स्वयंवरमण्डपमिलितसमस्तराजवर्गेणापमानितस्तेषु च प्रद्वेषमापन्नो मृत्वा व्यन्तरेषूत्पन्नः, स चाचिन्तयद्-भव्यमिदं परिव्राजकसुतेन परिकल्पितं, यद्येतद्राजानोऽनुतिष्ठन्ति तदा सर्वेऽपि अमी नरकं यान्तीति मम वैरसिद्धिर्भवतीति विचिन्त्य च तमुवाच-प्ररूपय त्वमिदं लोके साहाय्यमहं करिष्यामीत्यभिधाय सर्वत्र रोगानुत्पादितवान्, परिव्राजकेन च राजानोऽभिहिताः-यदि पश्वादिभिर्यज्ञं कुरुत तदा सर्वमिदमुपशाम्यति, तेऽपि च पश्वादयो यज्ञे निहता दिवं यास्यन्ति, नात्र कश्चिद्दोष इति, राजानोऽपि च तथैवानुष्ठितवन्तः, त्रिदिवगमनप्रतीतिनिमित्तं यज्ञनिहतपश्वादीन्विमाने समारोप्य नभसा गच्छतो मधुदेवो जनस्य दर्शयति रोगाँश्च सर्वानुपशमयतीति लोकस्यात्रार्थे स्थिरता बभूव, ततश्च पिप्पलादेनेत्थं प्ररूपयता गच्छता कालेन राज्ञः सकाशादानीय मोक्षमेतौ गमिष्यत इति व्याजेन मातापितरौ यज्ञे हुतो, तदर्थत्वादेव सारम्भस्येति, तत्कालादारभ्यानार्यवेदप्रवृत्तिरिति संक्षेपः । ९. द्वेषध्याने श्रीआख्यानकमणिकोशाऽन्तर्गतधर्मरुचिनाविकनन्दयोः प्रसंगपटः । बहुजीवसंकुलाए गंगाए हसियसुरसमूहाए । उत्तारइ मोल्लेणं जणनिवहं नाविओ नंदो ।।१।। अह अन्नया य साहू धम्मरुई विविहलद्धिसंपन्नो । उत्तिन्नो गंगाए धरिओ सो तेण मोल्लकए ।।२।। अइकंते पहरदुगे वि जाव न हु मेल्लए तओ विहिओ । सहस त्ति छारपुंजो मुणिणा सो तेउलेसाए ।।३।। मरिऊण समुप्पन्नो सभाए घरकोइलो किलिट्ठमणो । धम्मरुई वि य पत्तो विहरंतो तत्थ कालेण ।।४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy