SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४२ आतुरप्रत्याख्यानप्रकीर्णकम् त्वामासीरधुनैवेह किं प्रिये न निरीक्ष्यसे । तिरोधानक्रीड्यालं वियोगस्य वयस्यया ।।२६।। नर्मणापि वियोगाग्निर्मर्माविद्युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा ।।२७।। एकाकिनी किमगच्छ: क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः ।।२८।। मां विना क्रीडसि कथमायाम्येष इति ब्रुबन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः ।।२९।। राज्ञश्च त्यक्तपानान्नवृत्तेर्गतवति त्र्यहे । मरणाशंकिनोऽमात्यास्तस्या वपुरदर्शयन् ।।३०।। अच्छभल्लवदत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कंकैराकृष्टलोचनम् ।।३१।। चर्वितोरसिजद्वंद्वं गृधेः पिशितगृनुभिः । समाकृष्टांत्रभारं च शिवाभिरशिवाकृति ।।३२।। छादितं मक्षिकावृंदैर्मधुमंडकजालवत् । पिपीलिकाभिश्चाश्लिष्टं पातभग्नांडभाण्डवत् ।।३३।। पूतिगंधि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति ।।३४ ।। ।। चतुभिः कलापकम् ।। अहो असारे संसारे सारं वस्तु न किंचन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियञ्चिरम् ।।३५ ।। आहायैरेव हि गुणैर्हरिद्रारागसन्निभैः । अहो ह्वियन्ते नारीभिर्न कश्चित् परमार्थवित् ।।३६।। यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता बहीरम्याः स्त्रियश्चर्मप्रसेविकाः ।।३७ ।। बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद्भवेत् । तस्यैव कामुकः कुर्यादृध्रगोमायुगोपनम् ।।३८ ।। स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ।।३९।। संकल्पयोनिना येन हहा विश्वं विडम्बितम् । तदुत्खनामि संकल्पमूलमस्यैव सर्वतः ।।४०।। एंव विचिन्त्य संसारविरक्तः स महामनाः । सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे ।।४१।। चतुर्थषष्ठमासादितपोभिदेहनिस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा ।।४२।। दुस्तपं स तपस्तप्त्वा कालयोगाद्विपद्य च । सनत्कुमारे कल्पेऽभूत् प्रकृष्टायुः सुरोत्तमः ।।४३।। ८. रागध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ दामनकोदाहरणम् । दामण्णगोदाहरणं तु-रायपुरे णगरे एगो कुलपुत्तो जातीतो, तस्स जिणदासो मित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपञ्चक्खाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिज्जमाणो गतो, उदिण्णे मच्छे दटुं पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्ण वारं गहिता मुक्का य, अणसणं कातुं रायगिहे णगरे मणियारसेट्ठिपुत्तो दामण्णगो णाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy