________________
खण्ड:-२ दृष्टान्तसमुच्चयः
८. रागध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्राऽन्तर्गता विक्रमयशसः कथा । अस्तीह काञ्चनपुरं दधानं काञ्चनश्रियम् । भोगावत्यमरपुरीलंकादिभ्योऽतिशायिनीम् ।।१।। तत्रासीद्विक्रमयशा नाम प्रवरविक्रमः । रिपुरस्त्रैणास्रनीरेद्धप्रतापेरंमदो नृपः ।।२।। तस्य पंचशतान्यासन्नंतःपुरमृगीदृशाम् । यूथभर्तुर्द्धिपस्येव करिण्यः प्रेमभाजनम् ।।३।। तदा चासीत् पुरे तस्मिन् सार्थवाहो महर्द्धिकः । नागदत्तोऽभिधानेन निधानमिव संपदाम् ।।४।। सौभाग्यलावण्यवती रूपातिशयसालिनी । विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् ।।५।। अन्योऽन्यनीलिकारागप्रेमाणौ तौ विजतुः । अव्याहतस्मरक्रीमासरसौ सारसाविव ।।६।। काकतालीयन्यायेन कथमप्येकदा तु सा । दृक्पथं विक्रमयशोवसुधाभर्तुराययौ ।।७।। तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुट्यमानविवेकस्वश्चेतस्येवमचिन्तयत् ।।८।। अहो विलोकने अस्या मृग्या इव मनोरमे । बंधुरः केशपाशश्च कलाप इव केकिनः ।।९।। पक्कबिंबं द्विधाभूतमिवोष्ठौ कोमलारुणौ । पीनोन्नतौ कुचावेतौ स्मरक्रीडाचलाविव ।।१०।। प्रत्यग्रे इव च लते भुजे सकलकोमले । मध्यं नितान्तक्षमं च मुष्टिग्राह्यं पवेरिव ।।११।। शेवलालीव रोमावल्यावर्त इव नाभ्यपि । नितम्बः पुलिनमिव लावण्यसरितस्त्वसौ ।।१२।। रंभास्तंभाविवोरू च पादौ च कमले इव । किमन्यत् सर्वमप्यस्या मनो हरति कस्य न ।।१३।। जराविक्लवचित्तत्वादनौचित्येन वेधसा । निवेशिता क्वाप्यपात्रे शक्रस्तंभः श्मशानवत् ।।१४।। .. एतामपहरिष्यामि क्षेप्स्याम्यन्तःपुरे निजे । अनौचित्यनिवेशित्वदोषः स्रष्टुः प्रयातु च ।।१५।। एवं मनसि निश्चित्य कंदर्पविधुरोऽथ ताम् । जग्राह विक्रमयशा यशो म्लानीचकार च ।।१६।। अंतरंतःपुरं क्षिप्त्वा रमयामास तां सदा । विचित्रस्मरलीलाभिरेकतानः स भूपतिः ।।१७।। आविष्ट इव भूतेन धत्तूरमिव लोढवान् । अपस्मारमिव प्राप्तो मदिरामिव पीतवान् ।।१८।। आघ्रात इव सर्पण सन्निपातमिवाप्तवान् । विधुरस्तद्वियोगेन सार्थवाहो बभूव सः ।।१९।। युग्मम् ।। तया सह वियुक्तस्य सार्थवाहस्य तस्य च । संयुक्तस्य च नृपतेः कालोऽगाद्दुःखसौख्यकृत् ।।२०।। विष्णुश्रिया रममाणे नृपे तस्मिन्निरंतरम् । ईjया कार्मणं चक्रुः क्रुद्धाः शुद्धांतयोषितः ।।२१।। कार्मणेन च सा तेन क्षीयमाणा क्षणे क्षणे । मूलवम्येव लतिका जीवितेन व्यमुच्यत ।।२२।। नृपोऽपि मृत्युना तस्या जीवन्मृत इव स्थितः । प्रलापी च विलापी च नागदत्त इवाभवत् ।।२३।। नादत्त चानले क्षेप्तुं तद्विष्णुश्रीकलेवरम् । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन् ।।२४ ।। मंत्रिणो मंत्रयित्वाथ वञ्चयित्वा च भूपतिम् । अरएये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् ।।२५।।
Jain Education International 2010_02
.
For Private & Personal Use Only
www.jainelibrary.org