SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४० आतुरप्रत्याख्यानप्रकीर्णकम् गृहीताः, स्वस्थीभूतं तस्य मनः । ततः श्राद्धो दध्यौ-“चत्वारो भङ्गा मुनीनां विद्यन्ते, तथाहि-१-रात्रौ गृहीतान्नं रात्रावेव भुङ्के २-रात्रौ गृहीतं दिवसे भुङ्केः ३- दिवसे गृहीतं रात्रौ ४-दिवसगृहीतं दिवसे च । एषु भङ्गेषु अन्त्य एवार्हः, शेषास्त्रयस्तु नार्हाः । कदाचिल्लोलुपतयाऽऽहारं करिष्यति तदोत्तरगुणहानिर्भविष्यति, क्रमेण मूलगुणघातोऽपि स्यात्, तेन महती क्षतिः, रात्रिभोजनमनन्तदोषदूषितं इत्यसौ गीतार्थत्वाज्जानन्नपि अधुना चेतसि तन्न स्फुरति । अथाहं तथा कुर्वे यदस्य कालनिर्णयेन महागुणः स्यात्" । इति ध्यात्वा युक्तया च विनयं विधायोक्तवान्-"स्वामिन् ! अद्य महद्भाग्यं मम यद्यूयं जङ्गमकल्पवृक्षा गुरुपार्श्वे गृहीतद्वयशिक्षाः सहसा मगृहे समागताः, भवदीयसाधुस्वरूपावलोकनेन पूर्वमनुयः पुण्डरीकाद्याः सर्वेऽप्यवेक्षिताः, एवं धन्यः संतोषी त्वं, पीयूषसमं भवदाचरणं चरणकरणं च । अहं मोहग्रस्तः कृतेन्द्रियसौख्यप्रशंसः पुत्रकलत्रासक्तश्चैकमुखेन युष्मदीयसद्भाववर्णनायामक्षमः । ईदशेऽपि मयि अत्र पादावधारणेन महती कृपा कृता । अथैकं प्रश्नोत्तरं प्रयच्छ- प्रत्यहं प्रभाते द्वित्रतारकनिरीक्षते गगने सति नमस्कारादि प्रत्याख्यानं करोमि, अद्य मया पुरिमड्ढे प्रत्याख्यातं, तत्किं पूर्णं न वेति ?" ततो मुनिना श्रुतदत्तोपयोगेन तारामण्डलं निरीक्षितं तेनोलक्षिता यामद्वयातीता मध्यरात्रीति । उक्तं चोत्तराध्ययने षड्विंशाध्ययने पढमं पोरसिं सज्झायं, बीअं झाणं झीयायई । तइयाए निद्दमोखं तु, चउत्थिए भूयोऽवि सज्झायं ।।१।। अथ रात्रिभागचतुष्कज्ञानोपायमाहजं नेइ जया रत्तिं, नखत्तं तंमि नह चउज्झाए । संपत्ते विरमिज्जा, सज्झाय पओसकालम्मि ।।१।। यन्नयति प्रापयति समाप्तिं यदा रात्रिं नक्षत्रं यस्मिन् दिने यस्मिन् क्षेत्रे यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवति, तञ्च नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः, तस्मिन्नक्षत्रे नभश्चतुर्थभागे संप्राप्ते विरमेत् निवर्तेत स्वाध्यायात् प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः । इत्थं ज्ञात्वाऽपि मनोभ्रमं हा मूढेन मया विरूपमाचरितं, धिमे लोभाभिभूतस्य जीवितम् । भोः श्रावक ! जैनशासनतत्त्वज्ञ ! धन्योऽसि कृतपुण्योऽसि त्वं, यदहं सिंहकेशरप्रदानात्पूर्वार्धप्रत्याख्यानप्रश्नेन संसारे निमज्जन् रक्षितः । सत्येयं तव चोदना, मार्गभ्रष्टस्य मम मार्गप्रापकत्वात् त्वं धर्मगुरुरसि, तव चातुर्यं धैर्यं च वागगोचरं" इत्यात्मनिन्दां तस्य स्तुतिं च विधाय निशां ज्ञात्वा गमनेऽनाचारः स्यात् । अथ गृहं मार्गयित्वा तत्रैकान्ते तस्थौ ध्यानपरः । प्रभाते तदाहारपरिष्ठापनार्थं शुद्धस्थण्डिलभूमौ गत्वा विधिना मोदकाँश्चूरयन् ढण्ढणसाधुरिव भावनां दध्यौ, शुकध्यानानलेन कर्मेन्धनानि प्रज्वालयितुं प्रवृत्तो यथा क्षणमात्रेण सकलान्यपि घातिकर्माण्युच्छेद्योत्पन्नकेवलज्ञानो जातः । देवैः स्वर्णाम्बुजं विहितं, तत्र स्थित्वा देशनां ददौ । तदृष्ट्वा तच्छ्रावकादीनां विस्मयोऽभूत् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy