________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१३९
भुङ्क्ते, तपसो हि वैयावृत्त्यं गरीय इति । अथवा बस्तिकूर्चकक्षादिरोमाणि न जातानि तावत्क्षुल्लकीक्षुल्लकयोरपि द्विर्भुञ्जानयोर्न दोषः । एकान्तरोपवासिनः साधोरेकगोचरकालेन न निर्वाहस्तदा द्वितीयवारं स भिक्षते । षष्ठभक्तकस्य द्वौ गोचरकालौ । अष्टमभक्तकस्य चतुःपञ्चोपवासकारकस्य च सर्वेऽपि गोचरकालाः, यदेच्छा भवति तदा भिक्षते, न तु प्रातर्गृहीतमेव धारयेत्, संचये जीवसंसक्तादिदोषसम्भवात्, इति प्रसङ्गात् (दर्शितं) । अथ स मुनिराहारार्थं पुरे भ्रमन् स्वजनादौ सिंहकेशरमोदकस्य लाहणी (प्रभावनां) जायमानां वीक्ष्याचिन्तयत्-“अद्य मया मोदका एव ग्राह्या स्तेऽपि सिंहकेशरका एव" इत्यभिग्रहं संप्रधार्य भिक्षायां प्रविष्टः, लोलुपतयाऽन्यत् प्रतिषेधति, तांश्चालभमानः संजातक्लिष्टाध्यवसायः केशरानेव ध्यायन् परिभ्रमति स्म । मध्याह्नो जातः । ततो “न लब्धा मया मोदका” इति प्रणष्टचित्तो बभूव । ततो गृहद्वारे प्रविशन् धर्मलाभस्थाने सिंहकेशरा इति वदति । एवं सकलमपि दिनं भ्रान्त्वा रात्रौ तथैवापणवीथीचत्वरचतुष्पथादिषु भ्रमति स्म । पश्चात्पौरुषीप्रतिलेखनप्रतिक्रमणक्रियादिकालोल्लङ्घनमपि न स्मृतिगोचरीकृतम् । भास्वदंशुभिश्चुम्बिते लोकैः प्रारब्धगमनागमने मार्गे जन्तुरक्षार्थमालोक्य गमनं कार्यमित्यपि न स्मृतम् इत्थं भ्रमन् रजनीयामद्वयं व्यतिचक्राम । ततः श्रावकगृहे प्रविवेश । धर्मलाभस्थाने सिंहकेशरा इत्युवाच । सोऽपि श्रावकोऽभ्युत्थानादिकं विधाय "अतर्कितमकाले मुनेरागमनं कथं जातं ?" इति विचिन्त्य दध्यो-“अयं साधुः क्षपकोऽद्यैव वासरे मयाऽप्रमत्तभावान्वितो दृष्टः, प्रागप्ययं धनधान्यसुवर्णकामिनीदासदास्यादिसंभृतं गृहं त्यक्त्वा वैराग्येण प्रव्रजितः, तत्सर्वमहं वेद्मि, गीतार्थोऽयमस्ति, परं सहसाऽत्रागमनं रात्रौ जातं तस्य को हेतुः ? यद्यस्य विद्यमानदोषान् प्रत्यक्षं कथयामि तदा श्राद्धत्वं मयि कुतः ? परमनेकसिद्धान्तपरार्थज्ञस्याग्रे मम वक्तुं नार्हम् । अथवा महापुरुषाणां चरित्रमगम्यमकलनीयं चास्मादृशां विषयादिरतानाम्, अतो ज्ञानिन एव जानन्ति परमार्थमस्य मनोगतं, स्वल्पबाह्यव्यवहारातीतचेष्टावीक्षणेन गुणिनां गुणेषु दोषो नोद्भावनीयः । तथापि गुणग्रहणबुद्ध्याऽवश्यं परीक्षा कार्या । यतोऽसौ प्रतिपातभावयुक्तोऽस्ति ? अथवा लेशमात्रेण ?" इति विचिन्त्य पुनर्दध्यौ-"नास्य काचिद्विषयोन्मुखी चेष्टा दृश्यते, न च परधनस्वर्णहरणादिचेष्टा वीक्ष्यते, वस्त्राच्छादितास्येन भाषते, क्रमेण पदस्थापनयतनापरश्च दृश्यते, अतो नासौ मूलगुणघातकः । आहाराभिलाषुकस्तु ज्ञायते" । इति ध्यात्वा तेन नानारसवत्यः शर्कराः खडखज्जकघृतपूरमोतीचूरकूरकर्पूरवासितसुखाद्याश्चोपढौकिताः । मुनिवरस्तु पुनः पुनः “नेदं ममाहँ नेदं ममाहँ" इत्यवोचत् । तन्निशम्य स श्राद्धो दध्यौ-"अद्यापि साधुरयं मार्गरतः, यतोऽभिग्रहानुचितं नाङ्गीकरोति, तदनुसारेण याञ्चामपि न विधत्ते, ततः कथं ज्ञायतऽस्याभिग्रहः ? परं प्रवेशसमये सिंहकेशरा इति प्रोक्तमस्ति, तेन परिज्ञायते, नूनमनेनैते न क्वापि लब्धाः, तेनास्य चित्तं प्रणष्टं" । ततस्तेन लाहणिकागतमोदकभृतभाजनमुपढौकितं “भगवन् ! ममानुग्रहं कुरु, गृहाण सिंहकेशरान्” । तेन ते
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org