SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३६ आतुरप्रत्याख्यानप्रकीर्णकम् सत्यप्रतिज्ञस्त्वं भ्रष्टप्रतिज्ञोऽहमसौ पुनः । न व्यधायि मया साधु तत्क्षमस्व क्षमानिधे ! ।।१३६।। द्यां यास्याम्युपसन्नोऽहमुपसर्गपराङ्मुखः । व्रज त्वमपि निःशंको ग्रामाकरपुरादिषु ।।१३७ ।। ग्रामेषु विश भिक्षायै भुंक्ष्वाहारमदूषितम् । भिक्षादोषा अपि पुरा विहितास्ते मयैव हि ।।१३८ । । स्वाम्यवोचत नश्चिन्तां मुञ्च संगमकामर ! । कस्याप्यधीना न वयं विहरामो निजेच्छया ।।१३९।। इत्युक्तवन्तं श्रीवीरं प्रणम्य स सुराधमः । सानुतापः प्रचचाल पुरुहूतपुरीं प्रति ।।१४० ।। इतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा उद्विग्नाश्चावतस्थिरे ।।१४१।। शक्रोऽपि मुक्तनेपथ्यांगरागोऽत्यन्तदुःखितः । संगीतकादिविमुखो मनस्येवमचिन्तयत् ।।१४२ ।। इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां कृतायां सोऽकुपत्सुरः ।।१४३।। अत्रान्तरे संगमकः पापपंकमलीमसः । प्रणष्टकान्तिप्राग्भारोऽम्भःस्पृष्ट इव दर्पणः ।।१४४ ।। भ्रष्टप्रतिज्ञो मन्दाक्षमन्दीभूताक्षिपंकजः । देवराजाधिष्ठितां तां सुधर्मामाययौ सभाम् ।।१४५ ।। युग्मम् शक्रः संगमकं दृष्ट्वा सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः ! सर्वेऽप्याकर्णयत मद्वचः ।।१४६।। अयं हि कर्मचण्डालः पापः संगमकामरः । दृश्यमानोऽपि पापाय तद् द्रष्टुं नैष युज्यते ।।१४७।। बह्वनेनापराद्धं हि यत्स्वामी नः कदर्थितः । नास्मभ्यमपि किं भीतो भवादीतो न यद्ययम् ।।१४८ ।। अर्हन्तो नान्यसाहाय्यात्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि नामुं पापमशिक्षयम् ।।१४९।। अतः परमिह तिष्ठन्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ कल्पादस्मात्सुराधमः ।।१५०।। इत्युदित्वा वज्रपाणिर्वज्रेणेव शिलोच्चयम् । जघान वामपादेन सुराधमममर्षणः ।।१५१।। पर्यस्यमानो विविधायधैर्माघवनर्भटैः । आक्रश्यमानस्त्रिदिवस्त्रीभिर्मोटितपाणिभिः ।।१५२।। सामानिकैर्हस्यामानो यानकाख्यविमानगः । स शिष्टैकार्णवायुष्को मेरुचूलां सुरो ययौ ।।१५३।। (युग्मम्) महिष्यः संगमकस्य शक्रमेवं व्यजिज्ञपन् । स्वनाथमनुगच्छामस्त्वदादेशो भवेद्यदि ।।१५४ ।। अनुगन्तुं संगमकं दीनास्या अन्वमस्त ताः । अवारयत्परीवारमशेषमपि वासवः ।।१५५ ।। त्रिषष्टि० १० पर्व० श्लोक १६४ तः ३१८] ६. मायाध्याने श्रीआवश्यकहारिभद्रीयवृत्तौ धनश्रियाः कथानकम् । . अहवा सव्वंगसुंदरित्ति/वसंतपुरं णयरं, जियसत्तू राया, धणवईधणावहा भायरो सेठ्ठी, धणसिरी य से भगिणी, सा य बालरंडा परलोगरया य, पच्छा मासकप्पगयधम्मघोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पव्वइउमिच्छइ, ते तं संसारनेहेणं न देंति, सा य धम्मव्वयं खद्धं खद्धं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy