________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१३५
संचारयन्त्यन्तरीयं नीवीनिबिडनच्छलात् । नितम्बबिंबफलकं काचिदाविरभावयत् ।।१११ ।। अंगभंगापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्रुचिरलोचना ।।११२।। यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् ? । शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ? ।।११३।। दयालुर्यदि वाऽसि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान त्रायसे कथम् ? ।।११४ ।। उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किंचिन्मानं हि तद्युक्तं मरणान्तं न युज्यते ।।११५ । । स्वामिन् ! कठिनतां मुंच पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् ।।११६ ।। एवं गीतातोद्यनृत्तैर्विकारैरांगिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगद्गुरुः ।।११७।। एवं विंशत्युपसगी तत्र रात्रौ सुराधमः । चक्रे संगमकः कायोत्सर्गस्थस्य जगद्गुरोः ।।११८ ।। प्रातः संगमकश्चैवमचिन्तयदहो अयम् । नेषदप्यचलद्ध्यानान्मर्यादाया इवार्णवः ।।११९ ।। तत्किं यामि दिवं भ्रष्टप्रतिज्ञो यामि वा कथम् । क्षोभयिष्याम्युपसर्गः स्थित्वाऽहं चिरमप्यमुम् ।।१२० ।। पथि सूर्यकरस्पृष्टे युगमात्रप्रदत्तदृक् । भगवान् वालुकाऽभिख्यं ग्रामं प्रत्यचलत्ततः ।।१२१।। सुराधमः संगमकः पंचचौरशती पथि । विचक्रे बालुकां चोच्चैर्वालुकार्णवसन्निभाम् ।।१२२ ।। मातुल ! मातुलेत्युच्चैर्जल्पन्तो दस्यवः प्रभुम् । तथा सस्वजिरे गाढं यथा गिरिरपि स्फुटेत् ।।१२३ । । जगाम वालुकाग्राम प्रशमामृतसागरः । जानुदध्यां वालुकायां मज्जत्पादो जगद्गुरुः ।।१२४ ।। निसर्गक्रूरधीरित्थमुपसर्गान् सुराधमः । पुरे ग्रामे वनेऽन्यत्राप्यनुगच्छन् प्रभोळधात् ।।१२५ । । उपसर्गकृतो जग्मुर्मासाः संगमकस्य षट् । अथाऽगाद्गोकुले स्वामी तदाऽऽसीत्तत्र चोत्सवः ।।१२६ । । षडप्युपोषितो मासान् भगवानतिलंघ्य तान् । कर्तुकामः पारणकं भिक्षार्थं गोकुलेऽविशत् ।।१२७ ।। यत्र यत्र गृहे स्वामी प्रययौ तत्र तत्र च । अनेषणां प्रविदधे पापधीः स सुराधमः ।।१२८ ।। दत्तोपयोगो ज्ञात्वा तमनिवृत्तं सुराधमम् । स्वामी निवृत्त्य भिक्षायास्तस्थौ प्रतिमया बहिः ।।१२९ । । किं भग्नपरिणामोऽयमिति सोऽप्यवधेः सुरः । यावदैक्षिष्ट तावच्चापश्यदक्षुभितं प्रभुम् ।।१३० ।। स सुरोऽचिन्तयच्चैवं षण्मासी सन्ततैः कृतैः । नोपसर्गः कम्पितोऽसौ सह्योऽर्णवजलैरिव ।।१३१ ।। दीर्घेणाप्येष कालेन ध्यानान्न हि चलिष्यति । वृथा मे प्रक्रमोऽत्राभूद्गजस्येवाद्रिभेदने ।।१३२ ।। स्वर्विलाससुखं हित्वा शापभ्रष्ट इवावनिम् । कियच्चिरं ह हाऽभ्राम्यं निजदुर्बुद्धिवञ्चितः ।।१३३।। एवं विचिन्त्य स सुरः प्रणम्य च जगद्गुरुम् । कृताञ्जलिर्लानमुखो हीणश्चैवमभाषत ।।१३४ ।। यथा सभायां शक्रेण कीर्तितोऽसि तथा ह्यसि । तद्वचोऽश्रद्दधानेन मयाऽस्येवमुपद्रुतः ।।१३५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org