________________
१३४
आतुरप्रत्याख्यानप्रकीर्णकम्
महर्षे ! तव तुष्टोऽस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च ।।८६।। पर्याप्तं तपसाऽनेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शंकां यच्छामि किं तव ? ।।८७।। इच्छामात्रेण पूर्यन्ते यत्र नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्गं प्रापयामि तम् ? ।।८८ । अनादिभवसंरूढकर्मनिर्मोलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ? ।।८९।। अशेषमंडलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ? ।।१०।। इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभौ । अप्राप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् ।।९।। मोघीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्येकं कामशासनम् ।।९२।। यतः कामास्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ।।९३।। इति निश्चित्य चित्तेन निर्दिदेश सुरांगनाः । तद्विभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ।।९४ ।। कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कंदर्पनाटकनटी वसन्तश्रीरशोभत ।।९५ ।। मुखवासं सज्जयन्ती विकसन्नीपरेणुभिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत ।।९६।। राज्याभिषेककामस्य मंगल्यतिलकानिव । सर्वांगं केतकव्याजात् कुर्वती प्रावृडाबभौ ।।९७ ।। सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसंपदमिवोद्दामां पश्यन्ती शुशुभे शरद् ।।९८ ।। जयप्रशस्तिं कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीलिलेखेव प्रत्यग्रैः कुन्दरकुड्मलैः ।।९९।। गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ।।१०० ।। एवमुज्जृम्भमाणेषु सममेवर्तुषु क्षणात् । मीनध्वजपताकिन्यः प्रादुरासन् सुरांगनाः ।।१०१।। संगीतमविगीतांग्यः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मंत्रालमिव मान्मथम् ।।१०२।। तत्राविसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः ।।१०३।। क्रमव्युत्क्रमगैस्तानैर्व्यक्तैव्यंजनधातुभिः । प्रवीणाऽवादयद्वीणां काचित् सकलनिष्कलाम् ।।१०४ ।। स्फुटत्तकारधोंकारप्रकारैर्मघनिस्वनान् । काश्चिच्च वादयामासुदृदंगांस्त्रिविधानपि ।।१०५ ।। नभोभूगतचारीकं विचित्रकरणोद्भटम् । दूष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः ।।१०६ ।। दृढांगहाराभिनयैः सद्यस्युटितकंचुका । बध्नन्ती श्लथधम्मिलं दोर्मूलं काऽप्यदीदृशत् ।।१०७ ।। दंडपादाभिनयनच्छलात् काऽपि मुहुर्मुहः । चारुगोरोचनागौरमूरुमूलमदर्शयत् ।।१०८।। श्लथचंडातकग्रन्थिदृढीकरणलीलया । काऽपि प्राकाशयद्वापीसनाभि नाभिमंडलम् ।।१०९ । । व्यपदिश्येभदन्ताऽऽख्यहस्तकाभिनयं मुहुः । गाढमंगपरिष्वंगसंज्ञां काचिच्च निर्ममे ।।११०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org